नगर-न्यायाधीश: चारधाम-पञ्जीयन-केन्द्रस्य निरीक्षणं कृतवान्, व्यवस्थाः प्रति प्रशासनं दृढम् अभवत्
हरिद्वारनगरम्, ३१ मे-मास: (हि.स.)। चारधाम-यात्रायाः ऑफलाइन-पञ्जीयन-प्रक्रियायां विलम्बस्य सूचनां प्राप्य नगर-न्यायाधीश: रविवासरे चारधाम-पञ्जीयन-केन्द्रस्य आकस्मिक-निरीक्षणं कृतवान्। निरीक्षणकाले यात्रिणां सुविधा-सुरक्षा-स्वास्थ्य-संबद्ध-व्यवस्थानां
पंजीकरण केंद्र का निरीक्षण करते एसडीएम


हरिद्वारनगरम्, ३१ मे-मास: (हि.स.)। चारधाम-यात्रायाः ऑफलाइन-पञ्जीयन-प्रक्रियायां विलम्बस्य सूचनां प्राप्य नगर-न्यायाधीश: रविवासरे चारधाम-पञ्जीयन-केन्द्रस्य आकस्मिक-निरीक्षणं कृतवान्। निरीक्षणकाले यात्रिणां सुविधा-सुरक्षा-स्वास्थ्य-संबद्ध-व्यवस्थानां विस्तृतं परीक्षणं कृतम्।

अस्मिन् अवसरे नगर-न्यायाधीश: हर-गिरिः उक्तवान् यत् जनपदप्रशासनं चारधाम-यात्रायां आगच्छतां श्रद्धालूनां कृते सर्वाः आवश्यक-व्यवस्थाः सुदृढीकरणाय निरन्तरं कार्यं करोति। केन्द्रे स्वच्छ-पीयुष-जलं, सुलभ-शौचालयाः तथा अन्याः मूलभूत-सुविधाः उपलब्धाः सन्ति। नगर-निगमस्य तथा सम्बन्धित-अधिकारीण: प्रति निर्देशाः दत्ताः यत् व्यवस्थाः निरन्तरं सुचारुरूपेण प्रवर्तन्ताम्, येन कस्यापि यात्रिणः असुविधा न भवेत्।

अस्मिन् सम्बन्धे पर्यटन-अधिकारी सुशील-नौटियालः उक्तवान् यत् यात्रिणां कृते पर्याप्त-आसन-व्यवस्था कृता अस्ति। पञ्जीयन-प्रक्रियायाः सरलीकरणाय केन्द्रे २० काउण्टर-स्थापनं कृतम् अस्ति, यत्र पञ्जीयन-सह स्वास्थ्य-परीक्षणस्य सुविधा अपि प्रदीयते। श्रद्धालूनां वर्धमान-सङ्ख्यां दृष्ट्वा अतिरिक्त-जलापूर्त्यर्थं बृहत्-जलवाहक-प्रपा: अपि स्थापिता: सन्ति, येन जलस्य समस्या न भवेत्। जनपदप्रशासनं स्पष्टं कृतवान् यत् चारधाम-यात्रां सुरक्षितां, सुव्यवस्थितां तथा सुगमां कर्तुं सर्वाणि व्यवस्थापनानि निरन्तरं निरीक्षणाधीनानि सन्ति, तथा यात्रिणां सुविधा सर्वोच्च-प्राथमिकता अस्ति।

Hindusthan Samachar / Divya Ranjan