विद्यार्थिभ्यो देयः संवेदनशीलतायाः सामाजिक-उत्तरदायित्वस्य च संस्कारः - पंड्या
हरिद्वारम्, 31 मईमासः (हि.स.)।गायत्रीतीर्थशान्तिकुञ्जे आयोजितस्य द्विदिवसीयस्य शिक्षकगरिमाशिविरस्य रविवासरे समापनम् अभवत्। अस्मिन् शिविरे छत्तीसगढ, ओडिशा, झारखण्ड, पश्चिमबङ्गालप्रभृतिभिः सहितेभ्यः पूर्वोत्तरराज्येभ्यः आगताः शिक्षकाः, शिक्षिकाः, भा
शिविर के दौरान


हरिद्वारम्, 31 मईमासः (हि.स.)।गायत्रीतीर्थशान्तिकुञ्जे आयोजितस्य द्विदिवसीयस्य शिक्षकगरिमाशिविरस्य रविवासरे समापनम् अभवत्। अस्मिन् शिविरे छत्तीसगढ, ओडिशा, झारखण्ड, पश्चिमबङ्गालप्रभृतिभिः सहितेभ्यः पूर्वोत्तरराज्येभ्यः आगताः शिक्षकाः, शिक्षिकाः, भारतीयसंस्कृतिज्ञानपरीक्षया सम्बद्धाः स्वयंसेवकाश्च सहभागितां कृत्वा शिक्षां संस्कारैः सह सम्बद्धुं तथा समाजराष्ट्रनिर्माणयोः स्वसक्रियभूमिकां निर्वहितुं संकल्पं कृतवन्तः।

शान्तिकुञ्जप्रमुखा शैलदीदी प्रतिभागिभ्यः प्रदत्ते स्वसन्देशे अवदत् यत् शिक्षकाः ज्ञानस्य संवाहकाः भाविपीढ्याः चरित्रनिर्मातारश्च सन्ति। सा शिक्षकेभ्यः विद्यार्थिनां अन्तः नैतिकमूल्यानि, अनुशासनम्, संवेदनशीलता, राष्ट्रभक्तेः संस्कारांश्च विकसितुं प्रेरणां दत्तवती।

समापनसत्रे महिलामण्डलस्य अध्यक्षा शैफालीपण्ड्या अवदत् यत् शिक्षकाः परिवारश्च उभौ अपि समाजनिर्माणस्य महत्त्वपूर्णाधारशिलाः स्तः। तया उक्तं यत् शिक्षायाः उद्देश्यं केवलं ज्ञानार्जनं न भवेत्, अपितु विद्यार्थिनां व्यक्तित्वपरिष्कारः, चरित्रनिर्माणम्, मानवीयमूल्यानां विकासश्च विशेषरूपेण बलं प्राप्नुयात्।

तया गायत्रीपरिवारस्य संस्थापिकायाः माता भगवतीदेवीशर्मायाः जीवनम् आदर्शांश्च उल्लिख्य उक्तं यत् समाजस्य विकासे सांस्कृतिकपुनर्जागरणे च महिलानां भूमिका सदा महत्त्वपूर्णा वर्तते। परिवारे, विद्यालये, समाजे च सकारात्मकवातावरणनिर्माणे नारीशक्तेः सहभागिता अत्यावश्यकी अस्ति। तया शिक्षकेभ्यः आह्वानं कृतं यत् ते विद्यार्थिनां अन्तः संवेदनशीलता, सदाचारः, अनुशासनम्, कर्तव्यनिष्ठा, सामाजिकउत्तरदायित्वम् इत्यादीनां जीवनमूल्यानां विकासं कुर्वन्तु।

शिविरस्य विभिन्नेषु सत्रेषु शिक्षा, संस्काराः, व्यक्तित्वविकासः, सामाजिकजागरूकता तथा राष्ट्रनिर्माणेन सम्बद्धेषु विषयेषु चिन्तनं सम्पन्नम्।

समापनावसरे चयनितेभ्यः प्रतिभागिशिक्षकेभ्यः प्रशस्तिप्रमाणपत्राणि प्रदाय सम्मानः कृतः।

Hindusthan Samachar / Dheeraj Maithani