सनातनं चेत् भारतम् अस्ति - स्वामी चिदानन्दः
कोलकातानगरम्, ३१ मे-मासः (हि.स.)। “सनातनं चेत् भारतम् अस्ति, भारतं चेत् सनातनम् अस्ति। सनातनस्य अर्थः केवलं केषाञ्चन कृते न, अपितु सर्वेषां कृते अस्ति। वयं स्व-स्व-रीत्या व्यक्तिगत-देवभक्तिं कुर्मः, किन्तु अधुना कालः आगतः यत् ‘देशभक्तिं’ सर्वे मिलि
कुमारसभा द्वारा प्रवर्तित विवेकानंद सेवा सम्मान 2026 से स्वामी चिदानंद सरस्वती (ऋषिकेश) को सम्मानित करते हुए पश्चिम बंगाल के माननीय पंचायत, ग्रामीण, कृषि एवं पशु संसाधन विकास मंत्री श्री दिलीप घोष। अन्य परिलक्षित हैं (बांए से) सर्वश्री महावीर रावत, मनीष जैन,महावीर बजाज, डॉ. तारा दूगड़, राधेश्याम गोयनका, सजज्न कुमार तुलस्यान, भागीरथ चांडक एवं बंशीधर शर्मा।


कोलकातानगरम्, ३१ मे-मासः (हि.स.)। “सनातनं चेत् भारतम् अस्ति, भारतं चेत् सनातनम् अस्ति। सनातनस्य अर्थः केवलं केषाञ्चन कृते न, अपितु सर्वेषां कृते अस्ति। वयं स्व-स्व-रीत्या व्यक्तिगत-देवभक्तिं कुर्मः, किन्तु अधुना कालः आगतः यत् ‘देशभक्तिं’ सर्वे मिलित्वा आचराम। सनातनः वदति—‘जीवत तथा अन्येभ्यः जीवनं दत्त’। अयं कालः न संघर्षस्य न च विनाशस्य, अपितु सहजीवनस्य अस्ति। अद्य मानवतायाः महाभारतस्य न, अपितु महत: भारतस्य आवश्यकता अस्ति। भारतं केवलं भूमेः खण्डः नास्ति, अपितु शान्तेः भूमिः अस्ति” इति उक्तवान्।

एतानि वचनानि दिव्याङ्ग-मुक्त-भारत-अभियानस्य सूत्रधारः तथा परमार्थ निकेतन-संस्थायाः संस्थापकाध्यक्षः स्वामी चिदानन्द सरस्वती शनिवासरे श्री बड़ाबाज़ार कुमारसभा पुस्तकालय-द्वारा राष्ट्रीयपुस्तकालयस्य सभागार-मध्ये आयोजिते चत्वारिंशत्तमे विवेकानन्द-सेवा-सम्मान-समारोहे सम्मानं प्राप्य उक्तवान्। अस्मिन् समारोहे तस्मै सम्मानस्वरूपं एकलक्ष-रूप्यकाणां राशिः तथा मानपत्रं प्रदत्तम्।

समारोहस्य प्रधानातिथिः दिलीपघोष: अवदत् यत् ऋषीणां विदुषां च भूमौ पश्चिमबङ्गे अद्य यत् परिवर्तनं दृश्यते, सः हिन्दूनाम् एकतायाः परिणामः अस्ति। “हिन्दुः जागरिष्यति चेत् राष्ट्रम् अपि जागरिष्यति; हिन्दूनाम् ऐक्ये सति किमपि असम्भवं नास्ति” इति सः उक्तवान्। सः अपि अवदत् यत् स्वामी विवेकानन्द मानवसेवायाः महत्त्वं वैश्विकमञ्चे प्रतिष्ठापितवान्, तथा च स्वामी-चिदानन्दस्य मानवसेवा तस्यैव सेवाभावस्य महान् सम्बन्ध: अस्ति।

विशिष्टातिथिः प्रख्यातः आयकर-परामर्शदाता सज्जनकुमार: तुलस्यान स्वामी-विवेकानन्दस्य चिन्तनम् आदर्शान् च अनुसर्तुं प्रेरितवान् तथा कुमारसभायाः प्रयासानां भूरिश: प्रशंसां कृतवान्। समारोहस्य अध्यक्षः सुप्रसिद्धः उद्योगपति: राधेश्यामगोयनका स्वामी-चिदानन्दस्य सेवाकार्याणि प्रशंसितवान्।

कार्यक्रमस्य सञ्चालनं पुस्तकालयस्य साहित्य-मन्त्रिणी डॉ.तारादूगड़: अकरोत्, यदा च कुमारसभायाः अध्यक्षः महावीरबजाज: स्वागतभाषणम् अददात्। उपमन्त्री सत्यप्रकाशराय: कल्याणमन्त्रस्य पाठं कृतवान्। प्रारम्भे मीता गाड़ोदिया स्वामी-विषयकं “ओ वरेण्य योद्धा संन्यासी” इति गीतम् प्रस्तुतवती।

अजयेन्द्रनाथ: त्रिवेदी-महाभागस्य वैदिक-मन्त्रपाठेन सह खुशबूबजाज: तथा शरण्यादूगड़: तिलकं कृतवन्त्यौ। ततः सज्जनकुमार-तुलस्यानः, भागीरथचांडक:, बंशीधर: शर्मा, राधेश्याम-गोयनका तथा दिलीप-घोषः मालया, प्रावारेण, श्रीफलेन, धनादेशेन मानपत्रेण च पूज्यं स्वामी-चिदानन्द-सरस्वती-महाभागं विधिवत् सम्मानितवन्तः।

विनोद: बागड़ोदिया, महावीरप्रसादरावत:, राकेशकुमारपाण्डेय: तथा नन्दकुमार: लढ़ा अतिथीनां माल्यार्पणेन स्वागतं कृतवन्तः।

समारोहे प्रह्लादराय: अग्रवाल:, कुंजबिहारी अग्रवाल:, बनवारीलाल: सोती, सांवरमल: अग्रवाल:, अशोक: मोदी, जेएस: मेहता, विजय: चोरड़िया, अजयप्रतापसिंह:, मुरारीलालदीवान: इत्यादयः कोलकाता-हावड़ा-नगरयोः सामाजिक-सांस्कृतिक-क्षेत्रयोः बहवः गणमान्याः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan