ताड़केश्वरधाम्नि हरितयोगेन दत्तः स्वास्थ्यपर्यावरणसंरक्षणस्य संदेशः
पौड़ीगढ़वालः, 31 मईमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये जनपदे योगं जनजनपर्यन्तं प्रेषयितुं तथा स्वस्थसन्तुलितजीवनशैल्याः प्रोत्साहनस्य उद्देश्येन जिलाआयुर्वेदिकयूनानीविभागस्य पक्षतः व्यापकस्तरे विभिन्नकार्यक्रमाः आयोजिताः सन्ति। योगदिवस
अंतर्राष्ट्रीय योग दिवस के उपलक्ष में योगा करने प्रशिक्षक


पौड़ीगढ़वालः, 31 मईमासः (हि.स.)।

अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये जनपदे योगं जनजनपर्यन्तं प्रेषयितुं तथा स्वस्थसन्तुलितजीवनशैल्याः प्रोत्साहनस्य उद्देश्येन जिलाआयुर्वेदिकयूनानीविभागस्य पक्षतः व्यापकस्तरे विभिन्नकार्यक्रमाः आयोजिताः सन्ति। योगदिवसपर्यन्तं चलिष्यमाणेषु कार्यक्रमेषु योगशिविराणि, हरितयोगः, योगपार्कगतिविधयः, सामूहिकयोगाभ्यासः, लाइवस्ट्रीमिंग, रनफॉरयोग इत्यादयः जनजागरूकताकार्यक्रमाः सम्मिलिताः सन्ति।

ताडकेश्वरमहादेवमन्दिरपरिसरे हरितयोगकार्यक्रमस्य आयोजनं कृतम्। प्राकृतिकवातावरणे आयोजिते अस्मिन् कार्यक्रमे प्रतिभागिनः योगाभ्यासं कुर्वन्तः स्वास्थ्यस्य पर्यावरणसंरक्षणस्य च प्रति स्वप्रतिबद्धतां व्यक्तवन्तः। कार्यक्रमस्य समये योगविशेषज्ञाः नियमितयोगाभ्यासस्य शारीरिकमानसिकाध्यात्मिकलाभानां विषये जानकारीं प्रदाय एनं दैनिकजीवनस्य अङ्गं कर्तुं आह्वानं कृतवन्तः।

जिलाआयुर्वेदिकयूनानीअधिकारी डॉ. शैलेन्द्रपाण्डेयः अवदत् यत् जनपदे योगं जनआन्दोलनरूपेण स्थापयितुं विभिन्नगतिविधयः सञ्चालिताः सन्ति। जनपदे २० मईतः १० जूनपर्यन्तं विशेषयोगजागरूकताअभियानं चाल्यते। अस्मिन् अवधौ अधिकारिणः कर्मचारीणश्च नमस्तेयोगऐप तथा योगब्रेकऐप इत्येतयोः माध्यमेन नियमितयोगाभ्यासं कुर्वन्तः योगस्य वैज्ञानिकमहत्त्वं स्वास्थ्यलाभांश्च ज्ञाप्यन्ते। योगाभ्यासेन सह पर्यावरणसंरक्षणस्य प्रोत्साहनार्थं हरितयोगगतिविधीनामपि आयोजनं क्रियते, यस्य माध्यमेन जनाः प्रकृत्या सह सामञ्जस्यं स्थापयित्वा स्वस्थजीवनं स्वीकर्तुं प्रेर्यन्ते।

Hindusthan Samachar / Dheeraj Maithani