Enter your Email Address to subscribe to our newsletters

जन्मतिथये अन्यं प्रमाणमपि मान्यम्
हमीरपुरम्, 04 मईमासः (हि.स.)।
उत्तरप्रदेशस्य हमीरपुरजनपदे राष्ट्रियवृद्धावस्थापेन्शनयोजनायाः अन्तर्गतां आवेदनप्रक्रियां सरलां पारदर्शिनीं च कर्तुं महत्त्वपूर्णानि निर्देशाः निर्गताः। अधुना निवृत्तिवेतनार्थं आवेदनसमये आधारकार्डम् अनिवार्यदस्तावेजरूपेण प्रस्तुतुं आवश्यकं न भविष्यति। तथा जन्मतिथेः प्रमाणरूपेण केवलं आधारकार्डे निर्भरता अपि निरस्ता अस्ति।
जिलाधिकारी अभिषेक गोयल सोमवासरे अवदत् यत् उत्तरप्रदेशस्य समाजकल्याणविभागेन प्रदत्तनिर्देशानुसारम् आवेदकानां वयः प्रमाणीकरणार्थं परिवारकुटुम्बपञ्जिकायाः प्रमाणितप्रतिः अथवा शैक्षिकअभिलेखाः, येषु जन्मतिथिः उल्लिखिता अस्ति, वैधदस्तावेजरूपेण स्वीकृताः भविष्यन्ति। अनेन तेषां पात्रलाभार्थिनां लाभः भविष्यति येषां समीपे आधारकार्डम् नास्ति अथवा तस्मिन् यथार्था जन्मतिथिः न उल्लिखिता अस्ति।
तेन एतदपि स्पष्टं कृतं यत् ये लाभार्थिनः आनलाइनपद्धत्या आवेदनं कृतवन्तः, किन्तु येषां परिवारकुटुम्बपञ्जिकाः अद्यापि न निर्मिताः, तेषां पञ्जिकाः शीघ्रं निर्मापयितव्याः, येन ते समये स्वान् आवेदनान् पूर्णीकृत्य योजनायाः लाभं प्राप्नुयुः। अस्मिन् कार्ये कस्यापि प्रकारस्य शिथिलता न स्वीकरिष्यते।
---------------
हिन्दुस्थान समाचार