Enter your Email Address to subscribe to our newsletters

गुवाहाटी-नगरम्, ०४ मे-मासः (हि.स.)। असम-विधानसभानिर्वाचनस्य २०२६ वर्षस्य कृते अद्य प्रातः अष्टवादनात् राज्यस्य १२६ आसनानां मतगणना आरब्धा।
प्रथम-पर्याय-गणनायां असम-प्रदेश-काङ्ग्रेस-अध्यक्षः तथा सांसदः गौरव-गोगोई भाजपा-अभ्यर्थिना हितेन्द्र-नाथ-गोस्वामिना १०५६ मतैः पश्चात् अस्ति। हितेन्द्र-नाथ-गोस्वामिने ४९९३ मतानि प्राप्तानि, यदा गौरव-गोगोई ३९३७ मतानि प्राप्तवान्।
निर्वाचन-आयोगेन प्रदत्तेषु आधिकारिक-अङ्कानाम् अनुसारं असमस्य ५३ आसनानां अनुमानानि प्रकाशितानि सन्ति। तेषु भाजपा ३२, काङ्ग्रेसः ९, बीपीएफ ५, अगप ३, एजेपी ३, एआईयूडीएफ १ आसनेषु अग्रे वर्तन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता