अद्य देशस्य चतुर्षु राज्येषु एकस्मिन् केन्द्रशासित-प्रदेशे च विधानसभानिर्वाचनस्य परिणामाः आगमिष्यन्ति
नवदिल्लीनगरम्, ०४ मे-मासः (हि.स.)। देशस्य चतुर्षु राज्येषु एकस्मिन् केन्द्रशासित-प्रदेशे च सम्पन्नानां विधानसभानिर्वाचनानां परिणामाः अद्य प्रकाशं गमिष्यन्ति। एते प्रदेशाः सन्ति— पश्चिम-बङ्गालः, तमिलनाडु-राज्यम्, असम-राज्यम्, केरल-राज्यम् तथा पुडुचे
सांकेतिक।


नवदिल्लीनगरम्, ०४ मे-मासः (हि.स.)। देशस्य चतुर्षु राज्येषु एकस्मिन् केन्द्रशासित-प्रदेशे च सम्पन्नानां विधानसभानिर्वाचनानां परिणामाः अद्य प्रकाशं गमिष्यन्ति। एते प्रदेशाः सन्ति— पश्चिम-बङ्गालः, तमिलनाडु-राज्यम्, असम-राज्यम्, केरल-राज्यम् तथा पुडुचेरी-प्रदेशः। समग्रस्य देशस्य दृष्टिः एतेषु परिणामेषु एव अवलम्बिता अस्ति। दृढ-सुरक्षाव्यवस्थायाः मध्ये मतगणना प्रातः अष्टवादने आरभ्यते। प्रथमं डाक-मतपत्राणां गणना भविष्यति, अनन्तरं ईवीएम-यन्त्रेषु निहितानां मतानां गणना क्रियते। सम्पूर्णा स्थिति सायं पर्यन्तं स्पष्टा भविष्यतीति अपेक्षा अस्ति।

अतिरिक्ततया पञ्चसु राज्येषु अष्टसु आसनेषु अपि अद्य एव मतगणना भविष्यति। एतानि तानि आसनानि सन्ति, यत्र वर्तमान-विधायकानां निधनानन्तरं गत-मासे उपनिर्वाचनानि आयोजितानि आसन्। तेषु गोवा-राज्यस्य पोंडा, कर्नाटकस्य बागलकोट तथा दावणगेरे-दक्षिणम्, नागालैण्डस्य कोरिडाङ्ग, त्रिपुरायाः धर्मनगरम्, गुजरातस्य उमरेठ, महाराष्ट्रस्य राहुरी तथा बारामती-आसनानि सम्मिलितानि सन्ति।

अस्यां निर्वाचन-प्रक्रियायां अभूतपूर्वं मतदानम्, दृढा सुरक्षा तथा जीवदृश्य-प्रसारणादीनि तन्त्रज्ञान-नवोन्मेषाः निर्वाचन-प्रक्रियायाः विकासं सूचयन्ति। अद्य सायं पर्यन्तं स्पष्टं भविष्यति यत् कः पक्षः गठबन्धनं वा सत्तां प्राप्स्यति। एतेषां राज्यनां परिणामाः न केवलं प्रादेशिक-राजनीत्यां, अपि तु राष्ट्रीय-राजनीत्याम् अपि महत्त्वपूर्णं प्रभावं दर्शयिष्यन्ति।

पञ्च-राज्येषु निर्वाचन-परिणामेषु जनानां विशेष-दृष्टिः पश्चिम-बङ्गाले केन्द्रिता भविष्यति। बहुषु एक्जिट-पोल-अनुमानेषु भारतीय-जनता-पक्षः अग्रेऽस्ति। यदि एतानि अनुमानानि परिणामरूपे परिणमन्ति, तर्हि पश्चिम-बङ्गालात् तृणमूल-काङ्ग्रेस-पक्षस्य सत्ताया: अन्तः भविष्यति तथा ममता-बनर्जी अपि सत्तां त्यक्ष्यति। केरल-राज्यम् अपि अस्मिन् वारे भाजपा-पक्षाय पुनः जटिलं प्रश्नं भवितुम् अर्हति, यथा एक्जिट-पोल-अनुमानाननि सूचयन्ति। अद्यावधि राज्य-विधानसभायां भाजपा-पक्षस्य प्रथमं प्रवेशः २०१६-वर्षे अभवत्।

अनेक-एक्जिट-पोल-अनुमानेषु तमिलनाडु-राज्ये नूतनानि राजनैतिक-समीकरणानि दृश्यन्ते। असम-राज्ये भाजपा-पक्षस्य पुनरागमनं भविष्यतीति अपि सूचितम्, येन मुख्यमंत्री हिमन्त-बिस्वा-सरमा-इत्यस्य स्थितिः अधिकं सुदृढा भविष्यति। केन्द्रशासिते पुडुचेरी-प्रदेशे एन.रंगास्वामी-नेतृत्वे एआईएनआरसी-भाजपा-गठबन्धन-सर्वकारस्य पुनः सत्तास्थितिः सम्भाव्यते।

२९४-सदस्ययुक्तायाः पश्चिम-बङ्गाल-विधानसभायाः २९३ आसनानां कृते ७७ केन्द्रेषु मतगणना भविष्यति। दक्षिण-२४-परगना-जनपदस्य फलता-आसने किञ्चित् व्यवधानं जातम्, यस्मात् मतदानं निरस्तं कृतम्। फलता-आसने २१ मे-दिने पुनर्मतदानं भविष्यति। मतगणनां दृष्ट्वा अस्मिन् पर्याये राज्ये अभूतपूर्वा सुरक्षा-व्यवस्था कृताऽस्ति। भारत-निर्वाचन-आयोगेन १६५ अतिरिक्त-मतगणना-पर्यवेक्षकाः तथा ७७ आरक्षक-पर्यवेक्षकाः नियुक्ताः। मतगणना-केन्द्रेषु रिटर्निंग-अधिकारीणां पर्यवेक्षकाणां च विना अन्यः कश्चन दूरभाष-यन्त्रं नेतुं न शक्नोति। मतगणना-केन्द्रेषु त्रिस्तरीया सुरक्षा-व्यवस्था भविष्यति। प्रथमवारम् आयोगेन अनधिकृत-प्रवेश-निवारणाय क्यूआर-कोड-आधारित-छायाचित्र-परिचयपत्र-प्रणाली अपि आरब्धा अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता