Enter your Email Address to subscribe to our newsletters

कोलकाता, 04 मईमासः (हि.स.)।
पश्चिमबर्धमानजनपदस्य आसनसोलक्षेत्रे मतगणनायाः प्रथमपर्यायानन्तरं भाजपा इत्यस्य अग्रता इति वार्ता प्राप्तमात्रे एव पक्षकार्यकर्तृषु समर्थकेषु च महान् उत्साहः दृष्टः।
आसनसोल-उत्तर, आसनसोल-दक्षिण, कुल्टी, जामुड़िया तथा बाराबनी विधानसभासनेषु भाजपा-अभ्यर्थिनः प्रथमपर्यायानन्तरं अग्रे वर्तन्ते। एतत् ज्ञात्वा प्रातःकाले प्रायः दशवादने आसनसोल-इञ्जिनीयरिङ्ग-महाविद्यालयस्य समीपे स्थिते भाजपा-शिविरे कार्यकर्तारः समर्थकाश्च बहुसंख्यया समागच्छन्।
अस्मिन् अवसरे ढोल-नगाडैः घोषैः सह उत्सवमयः वातावरणः अभवत्। कार्यकर्तारः परस्परं मिठायाः वितरणेन आनन्दं व्यक्तवन्तः, विजयस्य विश्वासं च प्रकटितवन्तः।
यद्यपि एते केवलं प्रारम्भिकप्रवृत्तयः सन्ति तथा च अन्तिमपरिणामानां प्रकाशनाय अद्यापि कालः अपेक्षितः अस्ति, तथापि प्रथमपर्यायस्य एषा अग्रता भाजपा-पक्षे उत्साहं संवर्धितवती।
---------------
हिन्दुस्थान समाचार