मतगणनायाः आरंभिकस्थितिषु भाजपादलाय वृद्धिः , केषुचित्आसनेषु कंटकमिव घट्टनम्
मेदिनीपुरम्/झाड़ग्रामः, 04 मईमासः (हि.स.)।विधानसभानिर्वाचनस्य मतगणनायाः प्रारम्भिकप्रवृत्तिषु बहुषु आसनेषु भारतीयजनतापार्टी (भाजपा) इत्यस्य अग्रता दृश्यते, यदा तु केषुचित् आसनेषु कठोरः प्रतिस्पर्धः वर्तते। झाड़ग्रामविधानसभासने द्वितीयपर्यायस्य मतग
मतगणनायाः आरंभिकस्थितिषु भाजपादलाय वृद्धिः , केषुचित्आसनेषु कंटकमिव घट्टनम्


मेदिनीपुरम्/झाड़ग्रामः, 04 मईमासः (हि.स.)।विधानसभानिर्वाचनस्य मतगणनायाः प्रारम्भिकप्रवृत्तिषु बहुषु आसनेषु भारतीयजनतापार्टी (भाजपा) इत्यस्य अग्रता दृश्यते, यदा तु केषुचित् आसनेषु कठोरः प्रतिस्पर्धः वर्तते।

झाड़ग्रामविधानसभासने द्वितीयपर्यायस्य मतगणनानन्तरं भाजपा-अभ्यर्थी लक्ष्मीकान्त साव २८७२ मतैः अग्रे वर्तते। तथैव खड़गपुरविधानसभासने प्रथमपर्यायस्य गणनायाः समाप्तेः अनन्तरं भाजपा-अभ्यर्थी दिलीप घोष प्रायः १५०० मतैः अग्रतां धारयति।

सबङ्गविधानसभासने प्रथमपर्यायानन्तरं तृणमूलकांग्रेस-अभ्यर्थी मानस रञ्जन भुइयां ४१३ मतैः अग्रे वर्तते। मेदिनीपुरविधानसभासने तृतीयपर्यायस्य मतगणनानन्तरं भाजपा-अभ्यर्थी शंकर गुच्छैत ७३३४ मतैः अग्रतां धारयति।

दासपुर तथा घाटालविधानसभासनेषु अपि प्रथमपर्यायानन्तरं भाजपा-अभ्यर्थिनः अग्रे वर्तन्ते, यदा तु चन्द्रकोणासने उभयोः प्रमुखदलेयोः मध्ये तीव्रः प्रतिस्पर्धः दृश्यते।

खेजुरीविधानसभासने प्रथमपर्यायस्य मतगणनायां भाजपा ५७७९ मतानि प्राप्तवती, तृणमूलकांग्रेस च ४७०६ मतानि प्राप्तवती। अनेन प्रकारेण अत्र भाजपा १०७३ मतैः अग्रे वर्तते।

मतगणना अद्यापि प्रचलति, आगामिषु पर्यायेषु प्रवृत्तिषु परिवर्तनस्य सम्भावना अस्ति इति मन्यते।

---------------

हिन्दुस्थान समाचार