Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 04 मईमासः (हि.स.)।
दिल्लीराज्यस्य मुख्यमन्त्री रेखा गुप्ता अद्य दिल्लीसचिवालये पश्चिमबङ्गसहितानां विधानसभानिर्वाचनानां दलपक्षे आगच्छन्तीनां प्रवृत्तीनां काले ‘झालमूडी’ ‘रसगोल्ला’ इत्येताभ्यां सह भारतीयजनतापार्टी इत्यस्य विजयस्य उत्सवं अकरोत्। मुख्यमन्त्री स्वस्य मन्त्रिमण्डलस्य सहकर्मिभिः सह एतत् विजयउत्सवं समाचरत्, सर्वे परस्परं झालमूडी रसगोल्लाभ्यां भोजयित्वा हर्षं वितरन्तः आसन्।
अस्मिन् अवसरॆ दिल्लीशिक्षामन्त्री आशीष सूद, लोकनिर्माणमन्त्री प्रवेश साहिब सिंह, पर्यावरणमन्त्री मनजिन्दर सिंह, पर्यटनमन्त्री कपिल मिश्रः, समाजकल्याणमन्त्री रविन्द्र इन्द्राज सिंह च उपस्थिताः आसन्।
मुख्यमन्त्री हर्षं व्यक्तीकृत्य एतत् देशस्य जनानां विश्वासस्य तथा प्रधानमन्त्रिणः नरेन्द्र मोदी नेतृत्वे प्रवर्तमाणानां जनकल्याणकारीनीतीनां स्पष्टस्वीकृतिः इति उक्तवती। सा प्रधानमन्त्रिणः नरेन्द्र मोदी, केन्द्रीयगृहमन्त्री अमित शाह तथा भाजपाया राष्ट्रियाध्यक्ष नितिन नवीन इत्येभ्यः अस्य ऐतिहासिकविजयस्य निमित्तं हार्दिकाभिनन्दनानि शुभाशंसाः च अर्पितवती।
मुख्यमन्त्री अवदत् यत् एषा विजयः केवलं राजनैतिकसफलता नास्ति, अपि तु देशस्य परिवर्तमाणस्य मनोभावस्य प्रतीकः अस्ति। अधुना देशस्य जनाः मिथ्यानारैः, भ्रमप्रसारिण्या राजनीत्या तथाकथितधर्मनिरपेक्षतायाः शून्यदावैः च उपरि उत्थाय स्थूलविकासं पारदर्शितां परिणामाधारितं शासनं च प्राथम्येन स्वीकरोति।
सा अपि उक्तवती यत् प्रधानमन्त्रिणः नेतृत्वे ‘सबका साथ सबका विकास सबका विश्वास’ इति मन्त्रः व्यवहारतः कार्यान्वितः, यस्य प्रभावः अद्य प्रत्येकस्मिन् राज्ये सर्वेषु वर्गेषु च स्पष्टतया दृश्यते।
मुख्यमन्त्री उक्तवती यत् केन्द्रसरकारस्य जनधनयोजना उज्ज्वलायोजना आयुष्मानभारतकार्यक्रमः डिजिटलइण्डिया आत्मनिर्भरभारत इत्यादयः अभियाना सामान्यजनजीवने वास्तविकपरिवर्तनं कृतवन्तः। दरिद्राः कृषकाः महिलाः युवानः च सर्वे सशक्तीकरणस्य दिशि अग्रे नीताः, येन देशस्य विकासयात्रा नवगत्याः प्राप्ता।
सा अपि अवदत् यत् भाजपाया नीति केवलं निर्वाचनविजये सीमिता नास्ति, किन्तु सर्वेषु राज्येषु समतोलविकासस्य सुनिश्चितिः तस्य लक्ष्यं वर्तते। पूर्वोत्तरात् आरभ्य पूर्वभारतपर्यन्तं आधारसंरचनायाः संयोजनस्य रोजगारावकाशानां च अभूतपूर्ववृद्धिः दृश्यते, यत् अस्मिन् निर्वाचनफलिते प्रतिफलति।
शिक्षामन्त्री आशीष सूद सामाजिकमाध्यमे एक्स इति स्थले लिखित्वा उक्तवान् यत् पश्चिमबङ्गस्य झालमूडी रसगोल्लयोः माधुर्येन सह भाजपाया विजयः उत्सवेन सह आचरितः। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदी नेतृत्वे एषा ऐतिहासिकविजयः प्राप्ता, एषा तस्य दूरदर्शिनः मार्गदर्शनस्य जनसेवायाः च परिणामः।
लोकनिर्माणमन्त्री प्रवेश साहिब सिंह उक्तवान् यत् एते परिणामाः इण्डीगठबन्धनस्य वास्तविकतां देशस्य समक्षं प्रकटयन्ति। बंगालस्य जनाः हिंसा अराजकता तुष्टिकरणराजनीतिं निरस्तवन्तः, एषः जनादेशः विकासस्य स्थैर्यस्य तथा प्रधानमन्त्रिणः नरेन्द्र मोदी नेतृत्वे दृढविश्वासस्य प्रमाणम्।
पर्यावरणमन्त्री मनजिन्दर सिंह सिरसा अवदत् यत् बंगालजनाः धैर्यवन्तः सूक्ष्मबुद्धयः च सन्ति, ते सम्यक् चिन्तयित्वैव निर्णयं कुर्वन्ति, अस्मिन् अपि समये तथैव कृतवन्तः।
पर्यटनमन्त्री कपिल मिश्रः अवदत् यत् सनातनविरोधिनां पराजयः अभवत्, जनादेशः स्पष्टः अस्ति यत् हिन्दूनां अवमानं कृत्वा कोऽपि सत्तायां स्थातुं न शक्नोति।
समाजकल्याणमन्त्री रविन्द्र इन्द्राज सिंह उक्तवान् यत् एषः जनसमर्थनः प्रधानमन्त्रिणः नरेन्द्र मोदी मार्गदर्शनस्य सुशासनस्य जनकल्याणकारीनीतीनां च प्रति जनानां दृढविश्वासस्य प्रतीकः अस्ति।
---------------
हिन्दुस्थान समाचार