Enter your Email Address to subscribe to our newsletters

गोरखपुरतः 81 दिवसीयायाः गोविष्टि यात्रायाः शंखनादः, गोरक्षां जनआंदोलनं निर्मातुम्आह्वानम्
गोरखपुरम्, 04 मईमासः (हि.स.)। रामगढ़तालस्य तीरे सहारा-स्टेट्-क्षेत्रे स्थितायाः भारत माता की प्रतिमा पुरतः रविवासरे स्वामी अविमुक्तेश्वरानंद सरस्वती इत्यनेन ज्योतिष्पीठस्य शङ्कराचार्येण एकाशीतिदिवसीया “गोविष्टि-यात्रा” विधिवत् प्रारब्धा। शङ्खनादेन, पूजा-अर्चनया, सामूहिकसंकल्पेन च आरब्धायाः अस्याः यात्रायाः उद्देशः गोसंरक्षणं, गोमातुः राष्ट्रमातृत्व-प्राप्तिः, तथा गोरक्षायाः व्यापक-जनान्दोलनरूपेण विकासः इति अस्ति।
कार्यक्रमे सम्बोधयन् शङ्कराचार्यः उक्तवान् यत् गौः भारतीयसंस्कृतेः, सनातनपरम्परायाः, लोकजीवनस्य च आत्मा अस्ति। सः अवदत् यत् गोरक्षार्थं केवलं भावनात्मकदृष्ट्या न, अपि तु लोकतान्त्रिकस्तरेऽपि सक्रियता अपेक्ष्यते। अस्मिन् सन्दर्भे सः “एकं नोटं एकं मतम्” इति मन्त्रं दत्त्वा जनान् आह्वयत् यत् ते स्वमताधिकारस्य उपयोगं तेषां जनप्रतिनिधीनां समर्थनार्थं कुर्वन्तु ये गोरक्षायाः प्रति स्पष्टप्रतिबद्धाः सन्ति।
सः स्पष्टतया उक्तवान् यत् गोरक्षानाम्ना कापि हिंसा न ग्राह्या। “अस्माभिः कस्यचित् प्रति दाहः न कर्तव्यः, न च कस्यचित् अन्यायः करणीयः। लोकतन्त्रे मतमेव महान् शक्तिः अस्ति, तेनैव व्यवस्थायाः परिवर्तनं शक्यते।”
गोमातुः राज्य-मातृत्वं राष्ट्र-मातृत्वं च घोषितुं सः पुनः आग्रहं कृतवान्, अस्य कृते राजनैतिक-इच्छाशक्तिः आवश्यकेति उक्तवान्। उपस्थितजनान् संकल्पं कारयामास—“अहं घोषयामि यत् गौः अस्माकं माता अस्ति।” सः अवदत् यत् गोरक्षा केवलं नाररूपेण न, अपि तु सामाजिक-राजनैतिक-प्राथमिकतारूपेण स्थापनीया।
स्वभाषणे सः उत्तर प्रदेश सरकार तथा भारतीय जनता पार्टी इत्येतयोः नीतिषु अपि प्रश्नान् उत्थापितवान्। यदि सत्तायां वास्तविक-इच्छाशक्तिः अभविष्यत्, तर्हि गोमातुः राज्य-मातृत्व-घोषणायां ठोस-प्रयत्नः कृतः स्यात् इति सः आरोपितवान्। मतबैंक-राजनीत्याः कारणेन स्पष्टनिर्णयात् परिहरणं क्रियते इति अपि उक्तवान्।
सः अवदत् यत् वर्तमानकाले समाजस्य प्रमुखा समस्या एषा अस्ति यत् कः तस्य हिते स्थितः इति स्पष्टता नास्ति। यात्राकाले सः सप्तत्रिंशताधिकान् कानूनान् चर्चयिष्यति येन तेन हिन्दुविरोधिनः इति मन्यन्ते। मन्दिराणां, परम्पराणां, सांस्कृतिकमूल्यानां च विषये अपि चिन्ता व्यक्ता।
एषा यात्रा गोरखपुर-ग्रामीणप्रदेशात् आरभ्य गोरखपुर-नगरं प्रति सम्पन्ना भविष्यति, तथा उत्तर प्रदेश राज्यस्य सर्वेषु ४०३ विधानसभाक्षेत्रेषु गमिष्यति। प्रतिदिनं प्रातः ९ वादनात् सायं ६ वादनपर्यन्तं शङ्कराचार्यः स्वस्य रथेन ग्रामे ग्रामे, नगरे नगरे च गत्वा गोरक्षासन्देशं प्रसारयिष्यति। यात्रायाः समापनं जुलाई-मासस्य २३ दिनाङ्के गोरखपुरे विशाल-जनसभया सह भविष्यति।
यात्राकाले चिल्लूपार-क्षेत्रे पूर्वविधायकः विनय शंकर तिवारी सन्तवेषेण शङ्कराचार्यस्य स्वागतं कृत्वा आरतीं कृतवान्। सहजनवा-क्षेत्रे अपि बहवः श्रद्धालवः आगत्य दर्शनं कृत्वा गोरक्षासंकल्पं कृतवन्तः।
जिलाप्रशासनेन कार्यक्रमाय २९ शर्तैः सह अनुमतिः प्रदत्ता आसीत्। आयोजनस्थले बहवः श्रद्धालवः, समर्थकाः, स्थानीयनागरिकाः च उपस्थिताः आसन्।
अन्ते शङ्कराचार्यः उक्तवान् यत् गोरक्षा केवलं धार्मिकविषयः न, अपि तु भारतीयसंस्कृतेः, करुणायाः, मानवीयमूल्यानां च संरक्षणस्य अभियानम् अस्ति। “यदा समाजः गौः वास्तवतः मातरं मन्यते, तदा एव तस्याः सुरक्षायै निर्णायकपरिवर्तनं सम्भविष्यति।
---------------
हिन्दुस्थान समाचार