पश्चिम बंगालनिर्वाचनम् : शिल्पांचले भाजपादलेन निर्मितारम्भिकी वृद्धिः
आसनसोलम्, 04 मईमासः (हि.स.)।पश्चिमबङ्गदेशे मतगणना आरब्धमात्रे एव बहुषु महत्त्वपूर्णेषु आसनेषु प्रारम्भिकप्रवृत्तयः प्रकाशं प्राप्ताः। राज्यस्य शिल्पाञ्चलम् इति प्रसिद्धे औद्योगिकप्रदेशे आसनसोल-दुर्गापुर क्षेत्रे प्रारम्भिकप्रवृत्तिषु भारतीयजनतादलं
पश्चिम बंगालनिर्वाचनम् : शिल्पांचले भाजपादलेन निर्मितारम्भिकी वृद्धिः


आसनसोलम्, 04 मईमासः (हि.स.)।पश्चिमबङ्गदेशे मतगणना आरब्धमात्रे एव बहुषु महत्त्वपूर्णेषु आसनेषु प्रारम्भिकप्रवृत्तयः प्रकाशं प्राप्ताः। राज्यस्य शिल्पाञ्चलम् इति प्रसिद्धे औद्योगिकप्रदेशे आसनसोल-दुर्गापुर क्षेत्रे प्रारम्भिकप्रवृत्तिषु भारतीयजनतादलं (भाजपा) अग्रतां दर्शयति।

निर्वाचनायोगस्य प्रदत्तसूचनानुसारं रानीगञ्जविधानसभासने भाजपा-अभ्यर्थी पार्थ घोष ३४७८ मतैः अग्रे वर्तते। जामुड़ियायां भाजपा-अभ्यर्थी डॉ. बिजन मुखर्जी ३२४६ मतैः अग्रतां धारयति। आसनसोल-दक्षिणासने भाजपा-अभ्यर्थिनी अग्निमित्रा पॉल १०५०९ मतैः अग्रे वर्तते, एषा अद्यपर्यन्तं सर्वाधिकः अन्तरः मन्यते।

आसनसोल-उत्तरसने भाजपा-अभ्यर्थी कृष्णेन्दु मुखर्जी ४१८६ मतैः अग्रे वर्तते। बाराबनीविधानसभासने प्रतिस्पर्धा अत्यन्तं तीव्रा अस्ति, यत्र भाजपा-अभ्यर्थी अरिजीत राय केवलं ७९ मतैः अग्रे वर्तते।

दुर्गापुर-पश्चिमासने भाजपा-अभ्यर्थी लखन घोड़ूई २२६० मतैः अग्रतां धारयति, यदा तु दुर्गापुर-पूर्वासने भाजपा-अभ्यर्थी चन्द्रशेखर बनर्जी ८४ मतैः अग्रे वर्तते। पाण्डवेश्वरविधानसभासने भाजपा-अभ्यर्थी जितेन्द्र तिवारी २०४२ मतैः अग्रे वर्तते।

एतानि केवलं प्रारम्भिकप्रवृत्तयः सन्ति, यथा यथा मतगणना अग्रे गच्छति तथा तथा स्पष्टता अपि वर्धिष्यते। सर्वेषां दृष्टयः अधुना अन्तिमपरिणामेषु एव केन्द्रिताः सन्ति।

---------------

हिन्दुस्थान समाचार