Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 मईमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः तथा प्रधानमन्त्री नरेन्द्र मोदी अद्य उपराष्ट्रपतिं सी. पी. राधाकृष्णनं तस्य जन्मदिने अभिनन्दनानि शुभाशंसाश्च अर्पितवन्तौ।
राष्ट्रपतिः मुर्मुः ‘एक्स’ इत्यत्र स्वसन्देशे उपराष्ट्रपतेः उत्तमस्वास्थ्यं दीर्घायुः राष्ट्रसेवायां च निरन्तरं ऊर्जां प्रार्थितवती। अपरतः प्रधानमन्त्री मोदी स्वसन्देशे उक्तवान् यत् उपराष्ट्रपतिः देशं ‘विकसित भारत’ इति सामूहिकसंकल्पस्य सशक्तीकरणाय निरन्तरं प्रयतते। सः अवदत् यत् संसदेः कार्यवाहीं अधिकप्रभावी उत्पादकां च कर्तुं तस्य प्रयासाः लोकतान्त्रिकमूल्यानां प्रति तस्य गाढप्रतिबद्धतां दर्शयन्ति।
प्रधानमन्त्री उपराष्ट्रपतेः सर्वाङ्गीणविकासे समर्पणं तथा दरिद्रवञ्चितजनानां प्रति तस्य संवेदनशीलतां प्रेरणादायकं इति उक्तवान्। सः अवदत् यत् तस्य सार्वजनिकजीवनं समर्पणेन अनुशासनेन स्पष्टलक्ष्येण च प्रेरितम् अस्ति। मोदी उपराष्ट्रपतेः उत्तमस्वास्थ्यं सुखसमृद्धिं दीर्घायुः च कामयित्वा राष्ट्रसेवायां तस्य निरन्तरयोगदानस्य प्रशंसां कृतवान्।
---------------
हिन्दुस्थान समाचार