विश्वासस्य उदयः—बङ्गाल-राज्ये भाजपा-दलस्य ऐतिहासिकी महाविजयः : जे.पी.नड्डा
नवदिल्लीनगरम्, ०४ मईमासः (हि.स.)। पश्चिमबङ्गाल-विधानसभानिर्वाचने भारतीयजनतापक्ष: ऐतिहासिक-विजयस्य दिशि अग्रसरा अस्ति। अस्मिन् विजये हर्षं व्यक्त्वा केन्द्रीय-स्वास्थ्य-मन्त्री जेपी नड्डा उक्तवान् यत्— “विश्वासस्य उदयः—बङ्गाल-राज्ये भाजपा-दलस्य ऐतिह
केन्द्रीय स्वास्थ्य मंत्री जे पी नड्डा


नवदिल्लीनगरम्, ०४ मईमासः (हि.स.)। पश्चिमबङ्गाल-विधानसभानिर्वाचने भारतीयजनतापक्ष: ऐतिहासिक-विजयस्य दिशि अग्रसरा अस्ति। अस्मिन् विजये हर्षं व्यक्त्वा केन्द्रीय-स्वास्थ्य-मन्त्री जेपी नड्डा उक्तवान् यत्— “विश्वासस्य उदयः—बङ्गाल-राज्ये भाजपा-दलस्य ऐतिहासिकी महाविजयः।” सः अवदत् यत् अद्यतनः दिवसः भारतीयजनतापक्षस्य प्रत्येकं कार्यकर्तुः कृते भावुकः क्षणः अस्ति। पश्चिमबङ्गाल-राज्ये भाजपा-दलस्य अभूतपूर्व: महाविजयः नरेन्द्रमोदी-महोदयस्य दूरदर्शिनः नेतृत्वस्य जनकल्याणकारीणां नीतिनां च विषये जनताया: अनुमोदनं तथा तृणमूल कांग्रेस-पक्षस्य कुशासन-भ्रष्टाचार-तोलाबाजी-अवैधप्रवेश-तुष्टिकरण-अराजकता-दस्यूनां च पराजयः अस्ति।

सोमवासरे X-माध्यमेन प्रतिक्रिया दत्त्वा जेपी नड्डा अवदत् यत् इतिहासः साक्षी अस्ति—यदा बङ्गाल-प्रदेशः परिवर्तनं कर्तुं निश्चयं करोति तदा काचिदपि शक्ति तं निवारयितुं न शक्नोति। रवीन्द्रनाथटैगोर:, बंकिमचन्द्र: चटर्जी, सुभाषचन्द्रबोस: तथा श्यामाप्रसाद: मुखर्जी इत्यादीनां महानां देशभक्तानां पावनी भूमिः तृणमूल-कांग्रेस-पक्षस्य अहङ्कारं भग्नं कृत्वा प्रथमवारं भाजपा-दले विश्वासं प्रकटितवती इति। सः अस्मिन् प्रचण्ड-विजये राष्ट्रियाध्यक्षं नितिन-नवीनं, प्रदेशाध्यक्षं समिक-भट्टाचार्यम्, नेता-प्रतिपक्षं सुवेन्दु-अधिकारिणम् तथा बूथ-स्तरीयान् कर्मठ-कार्यकर्तॄन् अभिनन्दितवान्, प्रदेशस्य सर्वेभ्यः मतदातेभ्यः च हृदयपूर्वकं कृतज्ञतां व्यक्तवान्।

सः अपि अवदत् यत् नरेन्द्रमोदी-महोदयस्य नेतृत्वे ‘डबल-इञ्जिन-सर्वकारः’ ‘आमार-शोनार-बाङ्ग्ला’ इत्यस्य ध्येयेन ‘विकसित-पश्चिमबङ्गालम्’ निर्मातुं कृतसंकल्प: अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता