Enter your Email Address to subscribe to our newsletters

धर्मशाला-नगरम्, ०४ मे-मासः (हि.स.)। हिमाचल-प्रदेश-विद्यालय-शिक्षा-संघस्य द्वादश-श्रेण्याः सहस्रशः विद्यार्थिनां परीक्षाफल-प्रतीक्षा समाप्तिं प्रति गच्छति। संघेन अद्य प्रातः ११ वादनकाले “जमा-द्वितीय”-परीक्षायाः सर्वेषां संकायानां परिणामः घोषितः भविष्यति। अस्मिन् वर्षे ८१,४११ छात्र-छात्राभ्यां परीक्षायां सहभागिता कृता।
परिषदाध्यक्षः डॉ.राजेश-शर्मा उक्तवान् यत् परिणाम-घोषणायाः सर्वाः आवश्यक-सज्जाः पूर्णाः सन्ति। सः अवदत् यत् कला-विज्ञान-वाणिज्य-संकायानां परिणामाः एकस्मिन् एव काले प्रकाशिताः भविष्यन्ति।
अधिकारीणां अनुसारं परिणामः पूर्णतया डिजिटल-माध्यमेन उपलब्धः भविष्यति। छात्राः स्वस्य अनुक्रमाङ्कं (रोल-नम्बरम्) प्रविश्य परिषदः आधिकारिक-जालपुटे स्वीयं अङ्कपत्रं द्रष्टुं शक्नुवन्ति। समये परिणामस्य प्रकाशनेन तेषां विद्यार्थिनां विशेषः लाभः भविष्यति ये देशस्य विविधेषु विश्वविद्यालयेषु प्रवेश-प्रक्रियायां तथा स्पर्धात्मक-परीक्षासु भागं ग्रहीतुं सज्जाः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता