Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 मईमासः (हि.स.)।
लोकसभाध्यक्षः ओम् बिरला, केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमित शाह तथा विभिन्नराज्यानां मुख्यमन्त्रिणः अद्य उपराष्ट्रपतिं सी. पी. राधाकृष्णनम् तस्य जन्मदिने अभिनन्दनानि शुभाशयांश्च प्रदत्तवन्तः।
लोकसभाध्यक्षः ओम् बिरला ‘एक्स’ इति सञ्चारमाध्यमे लेखं प्रकाशित्य उपराष्ट्रपतिं सी. पी. राधाकृष्णनम् जन्मदिनस्य शुभाशयैः अभिनन्द्य उक्तवान् यत् संसदीयकार्यप्रणाल्यां भवतः निष्ठा तथा सार्वजनिकजीवनस्य दीर्घानुभवः राष्ट्राय महत्त्वपूर्णः अस्ति। उत्तमस्वास्थ्यं, प्रसन्नजीवनं दीर्घायुष्यं च भवतः स्यात् इति मम कामना।
केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमित शाह अपि उपराष्ट्रपतये जन्मदिनस्य शुभाशयान् दत्त्वा अवदत् यत् राधाकृष्णनस्य संसदीयप्रक्रियासु गहनबोधः तथा सार्वजनिकजीवनस्य विस्तीर्णानुभवः विकसितभारतस्य कृते अस्माकं लोकतान्त्रिकसंस्थानां सुदृढीकरणे महत्त्वपूर्णं योगदानं ददाति।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अभिनन्दनं कृत्वा उक्तवान् यत् प्रभोः श्रीरामस्य कृपया भवतः उत्तमस्वास्थ्यं दीर्घायुः राष्ट्रसेवायां निरन्तरं यशः ऊर्जा च लभ्येत इति प्रार्थये।
दिल्लीमुख्यमन्त्री रेखा गुप्ता अपि उपराष्ट्रपतिं राधाकृष्णनम् जन्मदिनस्य शुभाशयैः अभिनन्द्य उक्तवती यत् सार्वजनिकजीवने भवतः शुचिता उच्चसंसदीयआदर्शेषु समर्पणं च अस्माकं सर्वेषां कृते प्रेरणादायकम् अस्ति। भगवान् मुरुगनस्य कृपया भवतः उत्तमस्वास्थ्यं दीर्घायुष्यं च स्यात् इति प्रार्थये।
केन्द्रीयमन्त्री अर्जुनराममेघवालः अपि उपराष्ट्रपतिं अभिनन्द्य उक्तवान् यत् संवैधानिकमूल्येषु भवतः निष्ठा तथा राष्ट्रनिर्माणे समर्पितं योगदानं अस्माकं सर्वेषां कृते सततं प्रेरणास्रोतः अस्ति।
काङ्ग्रेसदलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखरगे अपि उपराष्ट्रपतये जन्मदिनस्य शुभाशयान् दत्त्वा उक्तवान् यत् अयं विशेषः अवसरः भवतः उत्तमस्वास्थ्यं, निरन्तरज्ञानं, राष्ट्रसेवायाः कृते नूतनशक्तिं च प्रददातु।
तथा अन्येऽपि केन्द्रीयामन्त्रिणः मध्यप्रदेशस्य महाराष्ट्रस्य च मुख्यमन्त्रिणः अभिनन्दनानि दत्त्वा उपराष्ट्रपतेः स्वस्थदीर्घायुषः कामनाम् अकुर्वन्।
---------------
हिन्दुस्थान समाचार