Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, ०४ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य ग्वालियर-प्रवासे सन् राज्य-स्तरीय-दुग्ध-उत्पादक-पशुपालक-सम्मेलनस्य उद्घाटनं करिष्यति। अस्मिन् सम्मेलने विभागीय-योजनानां अन्तर्गतं लाभान्वित-हितग्राहिभ्यः स्वीकृति-प्रमाणपत्राणि अपि वितरिष्यन्ति।
निर्धारित-कार्यक्रमानुसारं सः प्रातः १० वादने विमानमार्गेण राजमाता-विजयाराजे-सिंधिया-विमानस्थलं प्राप्स्यति, अनन्तरं १२.३० वादने ग्वालियर-व्यापार-मेला-परिसरे आयोजिते अस्मिन् सम्मेलने मुख्यातिथिरूपेण सहभागी भविष्यति।
अस्मिन् सम्मेलने प्रदेशस्य विविध-जनपदेभ्यः २०,००० अधिकाः पशुपालकाः, दुग्ध-उत्पादकाः, सहकारी-संस्थानां प्रतिनिधयः च भागं गृह्णन्ति। दुग्ध-उत्पादन-वृद्धये, उन्नत-पशुपालन-प्रोत्साहनाय तथा सहकारितया आर्थिक-सुदृढीकरणाय विशेषं बलं दीयते।
कार्यक्रमे पशुपालन-डेयरी-विभागस्य राज्य-मन्त्री लखन-पटेलः अपि उपस्थितः भविष्यति। कार्यक्रम-स्थले दुग्ध-उत्पादनं तथा शासकीय-योजनाः विषयीकृत्य प्रदर्शिनी अपि आयोजिता भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता