Enter your Email Address to subscribe to our newsletters

जोधपुरम् 04 मईमासः (हि.स.)।डॉ. सम्पूर्णानंद मेडिकल कॉलेज इत्यस्मिन् वार्षिक-सांस्कृतिक-क्रीडा-महोत्सवः “स्पन्दन-२०२६” इत्यस्य समापनं वैलेडिक्टरी-समारोह-सहितम् अभवत्। सप्ताहपर्यन्तं प्रवृत्ते अस्मिन् महोत्सवे विविधाः क्रीडा-सांस्कृतिक-कार्यक्रमाः आयोजिताः, येषु छात्राः उत्साहेन सहभागित्वं कृतवन्तः।
समापन-समारोहस्य मुख्य-अतिथिः आलोक रंजन आसीत्। विशिष्ट-अतिथिरूपेण एम्स जोधपुर इत्यस्य कार्यकारी-निदेशकः गोवर्धन दत्त पुरी अपि उपस्थितः आसीत्। कार्यक्रमस्य आयोजनं २०२३-बैचस्य “स्पन्दन” सांस्कृतिक-क्रीडा-आयोजन-समित्या कृतम्।
महाविद्यालयस्य प्राचार्य-नियन्त्रकः डॉ. बी.एस. जोधा इत्यस्य मार्गदर्शने आयोजिते अस्मिन् महोत्सवे अतिरिक्त-प्राचार्यः डॉ. एफ.एस. भाटी, एमडीएम अस्पताल इत्यस्य अधीक्षकः डॉ. विकास राजपुरोहित, डॉ. सी.आर. चौधरी, डॉ. शरद ठानवी, डॉ. राजकुमार राठौड़, डॉ. सुषमा कटारिया, डॉ. रघुवीर चौधरी, डॉ. कमल खींची, तथा डॉ. अरुण इत्येतेषां उपस्थितिः आसीत्।
महोत्सवस्य समये छात्राः क्रीडा, सङ्गीत, नृत्य तथा अन्यासु सृजनात्मक-गतिविधिषु स्वप्रतिभां प्रदर्शितवन्तः। समापन-समारोहे विविध-प्रतियोगितानां विजेतारः सम्मानिताः।
हिन्दुस्थान समाचार