पश्चिमबङ्गाल-राज्यस्य विजयः अस्मितायाः संस्कृतेः गौरवस्य च पुनर्स्थापनायाः प्रतीकः : नितिन-नवीनः
नवदिल्लीनगरम्, ०४ मईमासः (हि.स.)। असम-पश्चिमबङ्गाल-राज्ययोः भारतीयजनतादलस्य प्रचण्ड-विजये सति दलाध्यक्षः नितिननवीन: उभयोः राज्ययोः जनतायै कृतज्ञतां प्रकटितवान्। नितिन नवीन X-माध्यमेन प्रकाशिते स्वसन्देशे उक्तवान् यत्— “पश्चिमबङ्गालस्य देवतुल्यायै ज
भाजपा अध्यक्ष नितिन नवीन


नवदिल्लीनगरम्, ०४ मईमासः (हि.स.)। असम-पश्चिमबङ्गाल-राज्ययोः भारतीयजनतादलस्य प्रचण्ड-विजये सति दलाध्यक्षः नितिननवीन: उभयोः राज्ययोः जनतायै कृतज्ञतां प्रकटितवान्। नितिन नवीन X-माध्यमेन प्रकाशिते स्वसन्देशे उक्तवान् यत्— “पश्चिमबङ्गालस्य देवतुल्यायै जनतायै अस्य ऐतिहासिक-जनादेशस्य कृते कोटिशः धन्यवादाः, आभारः अभिनन्दनं च।”

सः अवदत् यत् चैतन्यमहाप्रभु:, स्वामीविवेकानंद: तथा श्यामा प्रसाद मुखर्जी इत्यादीनां महतां विभूतीनां पावनी एषा भूमिः अधुना शान्तेः समृद्धेः सुशासनस्य च नूतनयुगस्य साक्षिणी भविष्यति।

ततः सः अवदत् यत् एष: विजयः पश्चिमबङ्गालस्य अस्मितायाः संस्कृतेः गौरवस्य च पुनर्स्थापनायाः प्रतीकः अस्ति। नरेन्द्र मोदी-महोदयस्य नेतृत्वे वयं ‘सोनार-बाङ्ग्ला’ इत्यस्य संकल्पं साकारं कर्तुं राज्यस्य सर्वाङ्गीण-विकासाय च पूर्णतया समर्पिताः स्मः। सः आह्वानं कृतवान् यत् पश्चिमबङ्गाले सर्वे मिलित्वा सशक्तं सुरक्षितं समृद्धं च बङ्गालं निर्मायन्ताम्।

अन्ते नितिननवीन: उक्तवान् यत् असम-राज्यस्य जनतया तृतीयवारं राष्ट्रीयजनतांत्रिकगठबंधन-उपरि विश्वासं प्रदर्श्य स्पष्टं कृतम् यत् प्रदेशः अधुना विकास-शान्ति-समृद्धीनां मार्गे दृढतया अग्रसरः अस्ति। एषा ऐतिहासिकी विजयः नरेन्द्रमोदी-महोदयस्य नेतृत्वे सम्पन्नस्य प्रगतेः सुशासनस्य च परिणामः अस्ति। वयं असमस्य समृद्धां सांस्कृतिक-परम्परां गौरवं च रक्षन्तः राज्यं विकासस्य नूतन-उच्चतां प्रति नेतुं पूर्ण-प्रतिबद्धतया कार्यं निरन्तरं करिष्याम:।

हिन्दुस्थान समाचार / अंशु गुप्ता