Enter your Email Address to subscribe to our newsletters

कोहिमा, 04 अप्रैलमासः (हि.स.)। नगालैण्ड-राज्यस्य कोरिडाङ्ग-विधानसभाक्षेत्रस्य उपनिर्वाचने भारतीयजनतापार्टी (भाजपा) विजयम् अलभत। भाजपादलेन स्वस्य समीपतमप्रतिद्वन्द्वी ३१२३ मतैः पराजितः।
निर्वाचनायोगस्य अनुसारं सोमवासरे घोषितेषु परिणामेषु भाजपा-अभ्यर्थी दाओचिएर-आई-इमचेन ७३१७ मतैः विजयम् प्राप्तवान्। तेन समीपतमः निर्दलीय-अभ्यर्थी तोशीकाबा ४१९४ मतानि प्राप्तवान्। अपरत्र काङ्ग्रेस-दलस्य अभ्यर्थी केवलं १४४ मतानि एव अलभत। मतगणना सोमवासरे प्रातः ८ वादने आरब्धा।
उल्लेखनीयम् यत् राज्यस्य सत्तारूढदलम् नेशनलिस्ट-डेमोक्रेटिक-प्रोग्रेसिव-पार्टी (एनडीपीपी) अस्मिन् निर्वाचने स्वीयम् अभ्यर्थिनं न स्थापितवती। एनडीपीपी दलं भाजपया सह सङ्घबद्धं भूत्वा राज्ये शासनं वहति।------------------
हिन्दुस्थान समाचार