बङ्गाल-प्रदेशस्य जनानां स्वप्नानां पूर्तौ काचिदपि न्यूनतां न त्यक्ष्यति भाजपा : मोदी
नवदिल्लीनगरम्, ०४ मईमासः (हि.स.)। पश्चिमबङ्गाल-राज्ये भारतीयजनता-दलस्य प्राप्ते विजये सति प्रधानमन्त्री नरेन्द्र मोदी राज्यस्य जनतायै कृतज्ञतां प्रकटयन् उक्तवान् यत् दलं पश्चिमबङ्गाल-निवासिनां स्वप्नानाम् आकाङ्क्षाणां च पूर्तये काचिदपि न्यूनतां न क
Prime Minister Modi reaches Srikashi Vishwanath's court1


नवदिल्लीनगरम्, ०४ मईमासः (हि.स.)। पश्चिमबङ्गाल-राज्ये भारतीयजनता-दलस्य प्राप्ते विजये सति प्रधानमन्त्री नरेन्द्र मोदी राज्यस्य जनतायै कृतज्ञतां प्रकटयन् उक्तवान् यत् दलं पश्चिमबङ्गाल-निवासिनां स्वप्नानाम् आकाङ्क्षाणां च पूर्तये काचिदपि न्यूनतां न करिष्यति।

प्रधानमन्त्री X-माध्यमे प्रकाशिते सन्देशे एतानि निर्वाचनानि अविस्मरणीयानि इति उक्त्वा परिणामान् जनशक्तेः विजयः इति निरूपितवान्। सः बङ्गाल-जनतायै विजयस्य कृते आभारं प्रकटयन् अवदत् यत् भारतीयजनतादलस्य सुशासन-राजनीतये अत्र जनानां पूर्णमाशीर्वादः प्राप्तः अस्ति।

सः पुनः विश्वासं दत्तवान् यत् भाजपा पश्चिमबङ्गाल-जनानां स्वप्नानां पूर्तये काचिदपि न्यूनता न करिष्यति। ‘डबल-इञ्जिन-सर्वकारः’ समाजस्य सर्वेषां वर्गाणां कृते समाना अवसराः सम्मानं च सुनिश्चितं करिष्यति।

एतं विजयम् एकेन वरिष्ठ-नेत्रेण दलस्य कर्मठ-कार्यकर्तॄणां दशकानां यावत् निरन्तर-परिश्रमस्य संघर्षस्य च फलम् इति निरूप्य उक्तं यत् ते एव अस्माकं दलस्य वास्तविक-शक्तिः सन्ति।

अथ च गृहमन्त्री अमितशाह: उक्तवान् यत् बङ्गाल-निवासिनः अवैधप्रवेशकानां तेषां समर्थकानां च प्रति तादृशं पाठं दत्तवन्तः यत् तुष्टिकरण-राजनीतिं कुर्वन्त्यः दलानि कदापि न विस्मरिष्यन्ति। बङ्गाल-जनैः याभिः आशाभिः आकाङ्क्षाभिः च सह नरेन्द्र मोदी-महोदयस्य नेतृत्वे विश्वासः प्रदर्शितः, ताः वयं नूनं पूर्णाः करिष्यामः।

सः अपि अवदत्—“एष: विजयः तृणमूल-कांग्रेस-पक्षस्य ‘भयस्य’ उपरि मोदी-महोदयस्य ‘विश्वासस्य’ विजयः अस्ति। मम सदृशस्य प्रत्येकं भाजपा-कार्यकर्तुः कृते एषः गर्वस्य क्षणः अस्ति यत् गङ्गोत्री-प्रदेशे मातुः गङ्गायाः उद्गमात् आरभ्य गङ्गासागर-पर्यन्तं सर्वत्र अद्य भाजपा-दलस्य भगवा-ध्वजः गौरवेण लोलायते।”

अमितशाह: पुनरपि उक्तवान्—“चैतन्यमहाप्रभु:, स्वामीविवेकानंद:, रवीन्द्रनाथटैगोर:, सुभाषचन्द्रबोस: तथा श्यामाप्रसाद: मुखर्जी इत्यादीनां महापुरुषाणां पावनी भूमिः बङ्गालस्य नष्टं गौरवं पुनः स्थापयितुं ‘सोनार-बाङ्ग्ला’ इत्यस्य स्वप्नं साकारं कर्तुं च भाजपा-दलम् अहर्निशं प्रयतिष्यते।”

अन्ते सः उक्तवान् यत् एष: विजयः असंख्य-कार्यकर्तॄणां त्यागस्य संघर्षस्य बलिदानस्य च फलम् अस्ति, तथा तेषां परिवाराणां धैर्यस्य विजयः अपि अस्ति, ये हिंसां सहन्तः अपि भगवा-ध्वजं न त्यक्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता