Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 मईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी आगामिसप्ताहे यूरोपमहाद्वीपस्य चतुर्षु देशेषु—नीदरलैण्ड, स्वीडन, नॉर्वे, इटली—यात्रां करिष्यति। अद्यापि अस्याः यात्रायाः आधिकारिकघोषणा न कृता अस्ति।
प्रधानमन्त्री नॉर्वेदेशे तृतीयभारत-नॉर्डिक-शिखरसम्मेलने सहभागी भविष्यति। अस्मिन् शिखरसम्मेलने नवोन्मेषः, आर्थिकविकासः, पर्यावरणानुकूलसमाधानानि, परस्परहितकरः व्यापारः निवेशश्च मुख्यविषयाः भविष्यन्ति इति अपेक्ष्यते।
एतस्मिन् सम्मेलने सः पञ्चसु नॉर्डिकदेशेषु—डेनमार्क, फिनलैण्ड्, आइसलैण्ड्, नॉर्वे, स्वीडन्—स्वसमकक्षैः सह द्विपक्षीयबैठकाः अपि कर्तुं शक्नोति।
नीदरलैण्ड्-यात्रायां सेमिकण्डक्टर, कृत्रिमबुद्धिमत्ता, हरितहाइड्रोजन, व्यापारः, रक्षा इत्यादिषु क्षेत्रेषु द्विपक्षीयसहकार्यस्य विस्तारः चर्च्यते। स्वीडन्-यात्रायां स्थायिभविष्याय नवोन्मेषक्षेत्रेषु सहयोगस्य अधिकगहनता विषये ध्यानं केन्द्रितं भविष्यति। इटली-यात्रायां व्यापारनिवेशरक्षा-सम्बद्धानां द्विपक्षीयसम्बन्धानां समीक्षा तेषां च अधिकप्रोत्साहनं अपेक्ष्यते।
---------------
हिन्दुस्थान समाचार