प्रधानमंत्री कौशलं, परिश्रमः, शिक्षा अथ शिष्ट वाणी इत्येतान् गुणान् उज्जागरितुं संस्कृत सुभाषितं सहकृतम्
नवदिल्ली, 04 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् कौशलं परिश्रमः करुणा च अस्माकं जीवने अद्भुताः शक्तयः सन्ति। एताभिः वयं न केवलं सर्वाः चुनौतयः जयितुं शक्नुमः, अपि तु एताः अस्माकं लक्ष्यप्राप्तौ अपि सहायकाः भवन्ति। प्रधानमन्त
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, 04 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् कौशलं परिश्रमः करुणा च अस्माकं जीवने अद्भुताः शक्तयः सन्ति। एताभिः वयं न केवलं सर्वाः चुनौतयः जयितुं शक्नुमः, अपि तु एताः अस्माकं लक्ष्यप्राप्तौ अपि सहायकाः भवन्ति।

प्रधानमन्त्री अद्य ‘एक्स’ इत्यत्र संस्कृतसुभाषितं साझीकृतवान्— को हि भारः समर्थानां किं दूरं व्यवसायिनाम्। को विदेशः सुविद्यानां कः परः प्रियवादिनाम्॥

अनेन सः उक्तवान् यत् कौशलं परिश्रमः करुणा च अस्माकं जीवनस्य अद्भुताः शक्तयः सन्ति। एताभिः वयं न केवलं सर्वाः बाधाः अतिक्रामितुं शक्नुमः, अपि तु एताः अस्माकं लक्ष्यप्राप्तौ अपि सहायकाः भवन्ति।

अस्य सुभाषितस्य अर्थः अस्ति यत् समर्थानां कश्चित् भारः गुरुः न भवति, व्यवसायिनां कृते किञ्चित् दूरं न अस्ति, सुविद्यानां कृते कश्चित् देशः विदेशः न भवति, प्रियवादिनां कृते कश्चित् परः न भवति।

---------------

हिन्दुस्थान समाचार