Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 04 मईमासः (हि.स.)।
दादा लख्मीचन्द-राज्य-प्रदर्शन-दृश्यकला-विश्वविद्यालये (डीएलसी सुपवा) सोमवासरे विश्वविद्यालयस्य द्वितीयः दीक्षान्तसमारोहः समायोजितः। विश्वविद्यालयस्य कुलाधिपतिना तथा प्रदेशस्य राज्यपालेन प्रोफेसर-असीमकुमार-घोष-महाभागेन अध्यक्षतया विभिन्नेषु वर्गेषु पाठ्यक्रमेषु च सप्तशताधिक-षष्टिः (७६०) छात्रेभ्यः स्नातक-स्नातकोत्तर-उपाधयः प्रदत्ताः।
अयं दीक्षान्तसमारोहः विश्वविद्यालये उत्सवरूपेण आचरितः। अस्मिन् अवसरॆ तस्य धर्मपत्नी हरियाणा-प्रदेशस्य प्रथम-स्त्री मित्रा-घोष-महाभागा, विशिष्टातिथिरूपेण प्रदेशस्य शिक्षामन्त्री महिपाल-ढाण्डा तथा मुख्यमन्त्रिणः विशेषकर्तव्याधिकारी डॉ.राज-नेहरू च मुख्यतया उपस्थिताः आसन्।
विश्वविद्यालयस्य कर्मचारिणः शैक्षणिक-शोभायात्रया राज्यपालं अन्यान् अतिथींश्च मंचं प्रति आनयन्। तत्र दीपप्रज्वलनं कृत्वा सरस्वती-वन्दना, वन्देमातरम्, सुपवा-कुलगीतं च गायतः समारोहः आरब्धः।
विश्वविद्यालयस्य कुलाधिपतिः राज्यपालः डॉ.असीमकुमार-घोषः स्वसम्बोधने उक्तवान् यत् अस्मिन् दीक्षान्तसमारोहे उपस्थितिः तस्य गौरवस्य विषयः अस्ति। एतत् संस्थानं महान् सूर्यकवेः दादा लख्मीचन्दस्य नाम्ना स्थापितः, यस्य विरासत् अद्यापि कलाकाराणां पिढीः प्रेरयति। सः उपाधिप्राप्तान् छात्रान् अभिनन्द्य उक्तवान् यत् दीक्षान्तसमारोहः केवलं औपचारिकः कार्यक्रमः न, अपि तु ज्ञानस्य सृजनात्मकतायाः उत्तरदायित्वस्य च उत्सवः अस्ति। भारतस्य उच्चशिक्षा-प्रणाली विश्वस्य महान् प्रणालीषु एका अस्ति, या अद्य चत्वारिंशत्कोट्यधिकान् छात्रान् शिक्षां प्रददाति।
सः अवदत् यत् हरियाणा-प्रदेशे अपि अस्मिन् क्षेत्रे उल्लेखनीया प्रगति दृश्यते। डीएलसीसुपवा न केवलं रोजगारार्थं उपाधिप्रदानं करोति, अपि तु सृजनात्मक-नेतृत्वकर्तॄन् निर्माति, ये प्रदर्शन-दृश्यकला, वेशभूषा-रचना, चलचित्र-दूरदर्शन-क्षेत्रेषु वास्तुशिल्पादिषु च समाजं प्रभावितवन्तः। हरियाणवी-लोकपरम्पराः, सङ्गीतम्, रंगमञ्चः, नृत्यं च व्यापकं सम्मानं प्राप्नुवन्ति।
शिक्षामन्त्री महिपाल-ढाण्डा अपि उपाधिप्राप्तान् छात्रान् अभिनन्द्य उक्तवान् यत् अस्मिन् कार्यक्रमे सहभागिता केवलं राजकीयकर्तव्यं न, किन्तु व्यक्तिगततया अपि हर्षगौरवयोः विषयः अस्ति। एषः विश्वविद्यालयः राज्यस्य कला-संस्कृति-सृजनात्मकतायाः हृदयम् अस्ति। अत्रात् उपाधिप्राप्तिः केवलं शिक्षितत्वस्य न, अपि तु स्वसंवेदनानां कौशलस्य च परिष्कारस्य प्रमाणम् अस्ति।
विश्वविद्यालयस्य कुलगुरुः डॉ.अमित-आर्यः सर्वान् अतिथीन् स्वागतं कृत्वा छात्रान् अभिनन्दितवान्। सः अवदत् यत् अयं दिवसः छात्रजीवने महत्त्वपूर्णः मीलस्तम्भः अस्ति, यः न केवलं शैक्षणिकयात्रायाः समाप्तिः, किन्तु नूतनस्य युगस्य अवसराणां उत्तरदायित्वानां च आरम्भः अस्ति। अत्र प्राप्तं ज्ञानं कौशलं संस्काराश्च जीवनपर्यन्तं मार्गदर्शनं करिष्यन्ति।
उल्लेखनीयं यत् अस्य विश्वविद्यालयस्य स्थापना वर्षे २०१४ अभवत्, तथा २०२१ वर्षे प्रथमः दीक्षान्तसमारोहः आयोजितः।
---------------
हिन्दुस्थान समाचार