सिलीगुड़ी-नगरे दृढ-सुरक्षायाः मध्ये त्रयाणां विधानसभा-आसनानां मतगणना आरब्धा
सिलीगुड़ी-नगरम्, ०४ मे-मासः (हि.स.)। सिलीगुड़ी-महाविद्यालये सिलीगुड़ी, माटीगाड़ा-नक्सलबाड़ी तथा फांसीदेवा इत्येतेषां त्रयाणां विधानसभाक्षेत्राणां मतगणना आरब्धा। सर्वेषां दलानाम् अभ्यर्थिनः पूर्वमेव मतगणना-केन्द्रस्य अन्तः प्रविष्टाः सन्ति। समग्रः स
मतगणना केंद्र में कड़ी सुरक्षा में लगे जवान


सिलीगुड़ी-नगरम्, ०४ मे-मासः (हि.स.)। सिलीगुड़ी-महाविद्यालये सिलीगुड़ी, माटीगाड़ा-नक्सलबाड़ी तथा फांसीदेवा इत्येतेषां त्रयाणां विधानसभाक्षेत्राणां मतगणना आरब्धा। सर्वेषां दलानाम् अभ्यर्थिनः पूर्वमेव मतगणना-केन्द्रस्य अन्तः प्रविष्टाः सन्ति। समग्रः सिलीगुड़ी-महाविद्यालय-परिसरः दृढ-सुरक्षया परिवृतः अस्ति। केन्द्रीय-बलैः राज्य-आरक्षकविभागेन च दृढ-निरीक्षणस्य अन्तर्गतं मतगणना-प्रक्रिया प्रवर्तते।

हिन्दुस्थान समाचार / अंशु गुप्ता