तमिलनाडुनिर्वाचयेषु टीवीके बहुमतस्य समीपे, विजयस्य आवासे वर्धिता सुरक्षा
चेन्नई, 04 मईमासः (हि.स.)।तमिलनाडुराज्यस्य विधानसभानिर्वाचनस्य मतगणनायाः प्रारम्भिकप्रवृत्तयः राज्यस्य राजनीतौ महत् परिवर्तनम् दर्शयन्ति। अभिनेता-राजनेता विजयस्य दलं तमिलगा वेत्री कळगम् (टीवीके) इति १०९ आसनेषु अग्रताṃ प्राप्तवती। राज्यस्य २३४ सदस्
“विजय हार जाएंगे”.. डर के कारण युवक ने आत्महत्या का प्रयास किया!


चेन्नई, 04 मईमासः (हि.स.)।तमिलनाडुराज्यस्य विधानसभानिर्वाचनस्य मतगणनायाः प्रारम्भिकप्रवृत्तयः राज्यस्य राजनीतौ महत् परिवर्तनम् दर्शयन्ति। अभिनेता-राजनेता विजयस्य दलं तमिलगा वेत्री कळगम् (टीवीके) इति १०९ आसनेषु अग्रताṃ प्राप्तवती।

राज्यस्य २३४ सदस्यीयायाः विधानसभायाः बहुमताय ११८ आसनानां आवश्यकता भवति। अतः टीवीके दलं बहुमतस्य समीपं गच्छतीव दृश्यते, येन राजनैतिकचलनम् तीव्रं जातम्।

अन्यत्र, अखिलभारतीय अन्ना द्रविड़ मुनेत्र कळगम् (एआईएडीएमके) ६२ आसनेषु, द्रविड़ मुनेत्र कळगम् (डीएमके) च ४१ आसनेषु अग्रे स्तः। एतेषां प्रारम्भिकप्रवृत्तीनां मध्ये त्रिशङ्कुविधानसभायाः सम्भावना अपि सुदृढा दृश्यते, येन शासनगठनस्य विषये अनिश्चितता वर्तते।

मतगणनायाः समये चेन्नैनगरस्य नीलाङ्गरि-प्रदेशे स्थितस्य विजयस्य निवासस्य परितः सुरक्षा-व्यवस्था कड़ीकृता अस्ति। सम्भावितभीडं समर्थकानां बहुसङ्ख्यां च दृष्ट्वा बहवः पुलिसकर्मचारिणः नियुक्ताः सन्ति, येन कस्यापि अव्यवस्थायाः अप्रियघटनायाः वा निरोधनं भवेत्।

प्रवृत्तीनुसारं विजयः स्वयम् पेरम्बूर तथा तिरुचिरापल्ली-पूर्व विधानसभाक्षेत्राभ्यां अग्रे वर्तते। सः निर्वाचनप्रचारकाले उक्तवान् यत् तस्य दलं स्वबलात् शासनं स्थापयिष्यति जनानां अपेक्षाः च पूरयिष्यति। सः द्रमुक-शासनस्य विरुद्धं विधि-व्यवस्था तथा प्रशासनिकदोषान् प्रति तीव्रालोचनां कृतवान्।

अन्यत्र बोदिनायक्कनूर विधानसभाक्षेत्रे द्रमुक-दलस्य अभ्यर्थिनः स्थितिः सुदृढा वर्तते। राज्यव्यापि द्रमुक-संघटनस्य, एआईएडीएमके-नेतृत्वस्य राजगस्य, टीवीके, नाम तमिलर कच्ची (एनटीके) तथा निर्दलीय-अभ्यर्थिनां मतगणना अनुवर्तते।

उल्लेखनीयम् यत् २०२१ वर्षे विधानसभानिर्वाचने द्रमुक-दलेन १४६ आसनैः स्पष्टबहुमतं प्राप्तम् आसीत्। अस्मिन् वारे तस्य हानिः दृश्यते, येन राज्ये प्रतिपक्षभावनाया चर्चा अपि तीव्रा जाता।

अस्मिन्नेव समये कृष्णागिरि-जिलात् दुःखदघटना प्रकाशिता, यत्र टीवीके-समर्थकः महेन्द्रन (२८) इत्याख्यः दलस्य पराजयस्य अफवाहां श्रुत्वा आत्महत्यायाः प्रयासं कृतवान्। सः गम्भीरावस्थायाम् चिकित्सालये स्थापितः अस्ति।

अधुना सम्पूर्णराज्यस्य दृष्टिः अन्तिमपरिणामेषु एव अवस्थिताः सन्ति। एतत् द्रष्टुं रोचकं भविष्यति यत् किम् टीवीके बहुमतं प्राप्स्यति उत तमिलनाडौ त्रिशङ्कुविधानसभायाः स्थिति भविष्यति।

--------------

हिन्दुस्थान समाचार