Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, ०४ मे-मासः (हि.स.)। उत्तरप्रदेशे रविवासरस्य रात्रौ महत् प्रशासनिक-परिवर्तनम् अभवत्। शासनस्य निर्णयेन अष्टत्रिंशत् आईएएस-अधिकारीणां स्थानान्तरणं कृतम्। देवरिया, जौनपुर, प्रतापगढ, मुरादाबाद, फिरोजाबादादिषु अष्टसु जनपदेषु जनपदाधिकारिणः अपि परिवर्तिताः। अपि च, येन आईएएस-अधिकारी रिंकू-राही इत्याख्यः पूर्वम् त्यागपत्रं दत्त्वा पुनः सेवायां प्रत्यागतः, तस्मै अपि नियुक्तिः प्रदत्ता।
मुख्यमन्त्रिणः योगी-आदित्यनाथस्य विशेष-सचिवः तथा आवास-विकास-परिषदः अपर-आवास-आयुक्तः मधुसूदन-हुल्गी देवरिया-जनपदस्य नूतन-जनपदाधिकारी नियुक्तः। केस्को-प्रबन्ध-निदेशकः तथा अपर-आयुक्तः राज्य-कर-कानपुर-प्रथमः सैमुअल-पाल-एन जौनपुर-जनपदस्य जनपदाधिकारी नियुक्तः। गोरखपुर-विकास-प्राधिकरणस्य उपाध्यक्षः आनन्द-वर्धनः मऊ-जनपदस्य जनपदाधिकारी कृतः। गौरव-सिंह-सोगरवालः नगर-आयुक्त-गोरखपुरात् महाराजगंज-जनपदस्य जनपदाधिकारी कृतः। सन्तोष-कुमार-शर्मा महाराजगंजात् फिरोजाबाद-जनपदस्य जनपदाधिकारी कृतः। राजेन्द्र-पेंसिया संभलात् मुरादाबाद-जनपदस्य जनपदाधिकारी कृतः। अंकित-खण्डेलवालः आगरा-नगर-निगमात् संभल-जनपदस्य जनपदाधिकारी कृतः। अभिषेक-पाण्डेयः अपर-भूमि-व्यवस्था-आयुक्तः राजस्व-परिषदः प्रतापगढ-जनपदस्य जनपदाधिकारी नियुक्तः।
अन्येषां मध्ये प्रतापगढ-जनपदस्य जनपदाधिकारी शिवसहाय-अवस्थी उत्तरप्रदेश-राज्य-ग्रामीण-सड़क-विकास-प्राधिकरणस्य मुख्य-कार्यपालक-अधिकारी कृतः। मुरादाबाद-जनपदस्य जनपदाधिकारी अनुज-सिंहः मुख्यमन्त्रिणः विशेष-सचिवः नियुक्तः। गाजियाबादस्य मुख्य-विकास-अधिकारी अभिनव-गोपालः गोरखपुर-विकास-प्राधिकरणस्य उपाध्यक्षः कृतः। लखनऊ-जनपदस्य मुख्य-विकास-अधिकारी अजय-जैनः गोरखपुर-नगर-निगमस्य नगर-आयुक्तः नियुक्तः।
डा.अल्का-वर्मा चिकित्सा-स्वास्थ्य-सेवायाः निदेशक-पदात् विशेष-सचिव-वित्त-पदे नियुक्ता। निधि-बंसल निदेशकः (प्रशासन) चिकित्सा-स्वास्थ्य-सेवायाः पदे नियुक्ता। जौनपुर-जनपदस्य जनपदाधिकारी डा.दिनेश-चन्द्रः लोक-निर्माण-विभागस्य विशेष-सचिवः कृतः। मऊ-जनपदस्य जनपदाधिकारी प्रवीण-मिश्रः समाज-कल्याण-विभागस्य विशेष-सचिवः तथा अनुसूचित-जाति-जनजाति-आयोगस्य सचिवः कृतः। फिरोजाबाद-जनपदस्य जनपदाधिकारी रमेश-रंजनः अपर-भूमि-व्यवस्था-आयुक्तः राजस्व-परिषदः कृतः।
देवरिया-जनपदस्य जनपदाधिकारी दिव्या-मित्तल विशेष-सचिव-राजस्व-विभागे नियुक्ता। चन्द्रशेखरः विशेष-सचिव-सिंचाई-विभागे नियुक्तः। नेहा-जैनः विशेष-सचिव-आईटी-इलेक्ट्रॉनिक-विभागे तथा केस्को-प्रबन्ध-निदेशक-पदे नियुक्ता। समीरः वित्त-विभागात् आईटी-विभागे विशेष-सचिवः कृतः। सी.इन्दुमती महिला-कल्याण-विभागस्य निदेशकः तथा महिला-कल्याण-निगमस्य प्रबन्ध-निदेशकः कृतः।
वन्दना-वर्मा महिला-कल्याण-विभागात् चीनी-उद्योग-विभागे विशेष-सचिवः नियुक्ता। सन्तोष-कुमार-वैश्य गाजीपुरात् आगरा-नगर-निगमस्य नगर-आयुक्तः कृतः। राजेन्द्र-सिंह-द्वितीयः समाज-कल्याण-विभागात् प्रयागराज-राजस्व-परिषदः न्यायिक-सदस्यः नियुक्तः। प्रेम-प्रकाशः अपि तत्रैव न्यायिक-सदस्यः कृतः।
अंकुर-कौशिकः ग्रामीण-मार्ग-विकास-प्राधिकरणात् कानपुर-विकास-प्राधिकरणस्य उपाध्यक्षः कृतः। अवनीश-सक्सेना अधीनस्थ-सेवा-चयन-आयोगात् नियुक्ति-कार्मिक-विभागस्य विशेष-सचिवः कृतः। हरिकेश-चौरसिया आयुष-विभागात् अधीनस्थ-सेवा-चयन-आयोगस्य सचिवः कृतः। मदन-सिंह-गब्र्यालः कानपुर-विकास-प्राधिकरणात् आयुष-विभागस्य विशेष-सचिवः नियुक्तः।
हरदोई-जनपदस्य मुख्य-विकास-अधिकारी सान्या-छाबड़ा राज्य-कर-कानपुर-प्रथमस्य अपर-आयुक्ता कृताऽस्ति। प्रफुल्ल-कुमार-शर्मा रायबरेलीतः लखनऊ-जनपदस्य मुख्य-विकास-अधिकारी नियुक्तः। नेहा-ब्याडवाल जालौनात् हरदोई-जनपदस्य मुख्य-विकास-अधिकारी कृताऽस्ति। आलोक-प्रसादः बहराइचात् गाजीपुर-जनपदस्य मुख्य-विकास-अधिकारी नियुक्तः।
एवं कुमार-सौरभः जौनपुरात् गाजियाबादस्य मुख्य-विकास-अधिकारी कृतः। दयानन्द-प्रसादः प्रयागराज-माघ-मेला-कार्यालयात् गोण्डा-जनपदस्य मुख्य-विकास-अधिकारी नियुक्तः। जुहेर-बिन-सगीरः सामान्य-प्रशासन-विभागात् एनआरआई-विभागे विशेष-सचिवः कृतः। तथा रिंकू-सिंह-राही, यः पूर्वं तकनीकी-त्यागपत्रं दत्त्वा पुनः सेवायां प्रत्यागतः, सः जालौन-जनपदे संयुक्त-मजिस्ट्रेट-पदे नियुक्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता