Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री विपरीत परिस्थितिषु सामान्रजनेभ्यस्तत्कालं सहयोगम्उपलब्धुं निर्देशः
लखनऊ, 04 मईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदितयनाथः सोमवासरे प्रातःकाले लखनऊनगरेण सहितस्य प्रदेशस्य अनेकेषु जनपदेषु आगतां प्रवातवृष्टिं विपरीत-वातावरण-स्थितिं च दृष्ट्वा सामान्यजनानां कष्टान् निवारयितुं प्रशासनाय निर्देशान् अददात्। मुख्यमन्त्री प्रभावित-जनपदानां जिलाधिकारिणः प्रति आदेशं दत्तवान् यत् सम्पूर्णा यन्त्रणा सक्रियतया कार्यं करोतु, यथा विपरीत-वातावरणस्य न्यूनतमः प्रभावः भवेत्। जनहानिः, पशुहानिः, आहताः आपदापीडिताश्च २४ घण्टाभ्यन्तरे क्षतिपूर्तिं प्राप्नुयुः इति सुनिश्चितं क्रियताम्। अस्मिन् विषये कापि प्रमादता न स्यात्।
मुख्यमन्त्री उक्तवान् यत् शासनं सर्वासु प्रतिकूल-परिस्थितिषु कृषकानां समस्त-प्रदेशवासिनां च सह नित्यं तिष्ठति। प्रशासनिक-अधिकारिणः सजग-अवस्थायां स्थितुं निर्देशिताः। सः अवदत् यत् विपरीत-मौसमे कतिपयेषु जनपदेषु मार्ग-दुर्घटनाः अभवन्, तत्र शीघ्रं राहत-उद्धार-कार्याणि क्रियन्ताम्। आहतानां समीपस्थ-चिकित्सालयेषु शीघ्र-चिकित्सा सुनिश्चिता क्रियताम्। आँधी-वृष्ट्या कृषकाः सामान्यजनाश्च बहु कष्टं अनुभवन्ति, अतः सर्वथा प्रयत्नः क्रियताम् यत् अस्याः स्थितेः न्यूनतमः प्रभावः भवेत्।
मुख्यमन्त्री सर्वान् जिलाधिकारिणः निर्देशितवान् यत् ते निरन्तरं क्षेत्रे एव स्थित्वा वास्तविक-स्थितेः निरीक्षणं कुर्वन्तु। क्षेत्रीय-अधिकारिणः अपि प्रभावित-प्रदेशेषु गत्वा जनैः सह प्रत्यक्ष-संपर्कं कुर्वन्तु तथा राहत-कार्येषु समन्वयं कुर्वन्तु। कस्याञ्चित् विपरीत-स्थितेः आवश्यकता वा सति सर्वाः सूचनाः समये संकल्य शासनाय प्रदीयन्ताम्, येन प्रभावितानां शीघ्रं सहायता सुनिश्चिता स्यात्।
उल्लेखनीयम् यत् मौसम-विभागस्य चेतावनी-प्रकाशनानन्तरं रविवासरे रात्रौ अपि मुख्यमन्त्री योगी प्रदेशवासिनः सजगाः भवितुं आहूतवान्। तेन उक्तं यत् आँधी-वृष्टेः आकाशीय-विद्युत्पातस्य च सम्भावना अस्ति, अतः सर्वे सावधानाः भवन्तु। दूषित-मौसमे बालकान् गृहात् बहिः न गन्तुं अपि सः आह्वानं कृतवान्। सोमवासरे प्रातःकाले आँधी-वृष्टेः अनन्तरं राहत-उद्धार-कार्याणि प्रवर्तयितुं अधिकारिणः प्रति निर्देशाः दत्ताः।---------------
हिन्दुस्थान समाचार