बालेभ्यो वर्धनं, शिक्षित-समृद्ध-सशक्त भारतं निर्मेयम् : योगी आदित्यनाथः
-अवैधस्वामित्वपरिवादे मुख्यमंत्री दृढः, अधिकारिभ्योऽवदत् परिशील्यतां समग्रतया, दोषिभ्यः कार्यवाही करणीया,पीड़िताः संतोषणीयाः लखनऊ, 4 मईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः सोमवासरे अत्र स्वस्य शासकीय-निवासे पञ्च-कालिदास-मार्गे
जनता दर्शन में मुख्यमंत्री योगी


-अवैधस्वामित्वपरिवादे मुख्यमंत्री दृढः, अधिकारिभ्योऽवदत् परिशील्यतां समग्रतया, दोषिभ्यः कार्यवाही करणीया,पीड़िताः संतोषणीयाः

लखनऊ, 4 मईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः सोमवासरे अत्र स्वस्य शासकीय-निवासे पञ्च-कालिदास-मार्गे “जनता-दर्शनम्” अकरोत्। अस्मिन् अवसरः सः प्रदेशस्य विभिन्नेभ्यः स्थानाभ्यः आगतान् फरियादिनः मिलित्वा आश्वासितवान् यत् शासनं सर्वासां युक्तसमस्याः समाधानं करिष्यति। जनता-दर्शने सः मातापित्रोः सह आगतान् बालकान् प्रति तेषां शिक्षायाः विषये अपृच्छत्, अभिभावकान् च अवदत् यत् बालकान् अवश्यम् शिक्षयन्तु। शिक्षितः बालकः एव समृद्धभारतस्य निर्माणं करिष्यति। अवैध-अधिकारणस्य शिकायतायां मुख्यमन्त्री कठोरः अभवत्, सः त्वरितं अन्वेषणं कृत्वा दोषिषु कठोरकार्यम् कर्तुं निर्देशान् अदात्।

जनता-दर्शने अभिभावकैः सह केचन लघु-बालकाः अपि आगताः। मुख्यमन्त्री अपृच्छत्— “कस्यां कक्षायां पठसि?” इति। उत्तरं प्राप्तं यद् “अद्यापि प्रवेशः न कृतः।” ततः सः कारणं ज्ञातुम् इच्छन् सन्तोषजनकं उत्तरं न प्राप्य अभिभावकान् उक्तवान् यत् गत-नव-वर्षेषु प्रदेशे शिक्षास्तरः बहुधा उन्नतः अस्ति। प्राथमिके वा माध्यमिके, सर्वत्र गुणवत्तायुक्ता शिक्षा प्रदीयते। प्राथमिक-शिक्षा-परिषदः विद्यालयेषु अध्ययनशीलानां बालकानां कृते वसनम्, पुस्तकम्, जूते-मोजादिकं च क्रेतुम् अभिभावकानां खकोषेषु १२०० रूप्यकाणि दत्तानि भवन्ति। बालकानां कृते ताजा-पोषणयुक्तं मध्याह्न-भोजनम् अपि प्रदीयते। अतः भवन्तः बालकानां प्रवेशं कारयन्तु, नियमितरूपेण विद्यालयं प्रेषयन्तु च।

जनता-दर्शने केचन युवानः अपि उपस्थिताः। ते मुख्यमन्त्रीं प्रति रोजगारविषये चर्चां कृतवन्तः। मुख्यमन्त्री सर्वेषां वचनानि सावधानतया श्रुत्वा अवदत् यत् गत-नव-वर्षेषु नव-लक्षाधिकानां युवानां कृते शासकीय-नियुक्तयः दत्ताः। सर्वेषु विभागेषु नियुक्ति-प्रक्रिया निष्पक्षतया पारदर्शितया च सम्पन्ना अस्ति। अस्मिन् वर्षे अपि शासनं बहुषु विभागेषु नियुक्तयः करिष्यति, येन लक्षाधिकाः युवानः रोजगारं प्राप्स्यन्ति। भवन्तः केवलं परिश्रमेण सिद्धतां कुर्वन्तु, कस्यचित् समीपं गन्तुं आवश्यकता नास्ति। अस्माकं शासनव्यवस्थायां सिफारिशा न प्रवर्तते, पारदर्शितया एव नियुक्तिः भवति। यदि योग्यता अस्ति, तर्हि भवतः रोजगारः निश्चितः। वार्तायाः अनन्तरं युवानः सकारात्मकभावेन सिद्धतां कर्तुं संकल्पं कृतवन्तः, आत्मविश्वासवृद्धये च मुख्यमन्त्रिणः प्रति कृतज्ञतां व्यक्तवन्तः।

अवैध-अधिकारणस्य शिकायतायां मुख्यमन्त्री पुनः कठोरः अभवत्। सः फरियादिभ्यः आवेदनपत्रं गृहित्वा पठित्वा अधिकारिभ्यः अदात्, अवदत् च— “एतेषां प्रकरणानां अन्वेषणं क्रियताम्। राजस्व-विभागः, प्रशासनं, पुलिसदलं च संयुक्तरूपेण निर्णीयन्ताम् यत् किं कार्यं करणीयम्। यथोचितं कार्यं कृत्वा पीडितपक्षः सन्तोषितः क्रियताम्, ततः शासनं अपि सूचितम् भवतु। एतादृशाःपरिवादाः कदापि सह्याः न स्युः।”

हिन्दुस्थान समाचार