वाराणसी : वृत्तिषु बंगाले भाजपादलस्य निरंतरं वृद्ध्या कार्यकर्तारः उत्साहिताः, हवनपूजनमारब्धम्
वाराणसी,04 मईमासः (हि.स.)। पश्चिमबङ्गाल-राज्यस्य विधानसभानिर्वाचने बुधवासरे मतगणनायाः समये प्रवृत्तिषु भाजपायाः बहुमतयुक्ता अग्रता दृष्ट्वा उत्साहिताः कार्यकर्तारः धर्मनगरी वाराणस्यां विजयार्थं मन्दिरेषु हवन-पूजनं कुर्वन्ति। अपरत्र बङ्गसमाजस्य महि
बंगाल में भाजपा की जीत के लिए हवन पूजन करते कार्यकर्ता


वाराणसी,04 मईमासः (हि.स.)। पश्चिमबङ्गाल-राज्यस्य विधानसभानिर्वाचने बुधवासरे मतगणनायाः समये प्रवृत्तिषु भाजपायाः बहुमतयुक्ता अग्रता दृष्ट्वा उत्साहिताः कार्यकर्तारः धर्मनगरी वाराणस्यां विजयार्थं मन्दिरेषु हवन-पूजनं कुर्वन्ति। अपरत्र बङ्गसमाजस्य महिलाः गङ्गाघाटे शङ्खनादेन सह मातुः गङ्गायाः आरतीं कृतवन्त्यः। अस्मिन् कार्यक्रमे भाजपा-महिला-मोर्चायाः कार्यकर्तारः अपि सहभागीभूताः।

गङ्गा-आरत्याः अनन्तरं महिलाः मातरं गङ्गां प्रति भाजपायाः प्रचण्ड-विजयस्य कामनां कृतवन्त्यः। पत्रकारैः सह संवादे एताभिः उक्तं यत् मातुः गङ्गायाः समीपे प्रार्थना कृता यत् अस्मिन् समये पश्चिमबङ्गाले भारतीयजनतापार्टी प्रचण्डं बहुमतं प्राप्नुयात् तथा तत्र दृढं शासनं स्थापयेत्। बङ्गाले ममताबेनर्जी दीर्घकालात् शासनं करोति, तस्याः शासनकाले बहवः अत्याचाराः अभवन् इति ताः अवदन्। जनाः अधुना क्लान्ताः सन्ति, अतः तत्र सत्तापरिवर्तनं निश्चितम् इति ताः मन्यन्ते।

हिन्दुस्थान समाचार