ऋषिकेशे भूमिगता भविष्यति विद्युत्पंक्तिः, 548 कोटिमिताभ्यः परियोजनाभ्यःसहमतिः
ऋषिकेशः, 04 मईमासः (हि. स.)। केन्द्रसर्वकारेण उत्तराखण्डराज्ये विद्युत्-अवसंरचनासुदृढीकरणार्थं कुलं ५४८ कोटिरूप्यकाणां महत्त्वपूर्णा वित्तीयस्वीकृतिः प्रदत्ता। अस्मिन् ऋषिकेशे विद्युत्तत्रीणां भूमिगतकरणाय ४८९ कोटिरूप्यकाणि तथा हरिद्वार-देहरादून-ऋष
मुख्यमंत्री पुष्कर  सिंह धामी चित्र।


ऋषिकेशः, 04 मईमासः (हि. स.)। केन्द्रसर्वकारेण उत्तराखण्डराज्ये विद्युत्-अवसंरचनासुदृढीकरणार्थं कुलं ५४८ कोटिरूप्यकाणां महत्त्वपूर्णा वित्तीयस्वीकृतिः प्रदत्ता। अस्मिन् ऋषिकेशे विद्युत्तत्रीणां भूमिगतकरणाय ४८९ कोटिरूप्यकाणि तथा हरिद्वार-देहरादून-ऋषिकेशेषु स्काडा-प्रणाल्यै ५९ कोटिरूप्यकाणि अन्तर्भवन्ति। मुख्यमन्त्री पुष्कर सिंह धामी प्रधानमन्त्रिणं नरेन्द्र मोदी तथा विद्युत्-आवास-शहरीकार्य मन्त्री मनोहर लाल खट्टर प्रति कृतज्ञतां व्यक्तवान्।

केन्द्रीयविद्युत्-आवास-शहरीकार्य मन्त्री मनोहर लाल खट्टर द्वारा प्रेषिते पत्रे एषा सूचना मुख्यमन्त्रिणे पुष्कर सिंह धामी प्रदत्ता। मुख्यमन्त्री उक्तवान् यत् अस्याः स्वीकृतेः फलतः प्रदेशे विद्युत्प्रदायव्यवस्था अधिकं सुदृढा भविष्यति। तथा गङ्गाकॉरिडोरक्षेत्रे सौन्दर्यीकरणव्यवस्थासु अपि उन्नतिः भविष्यति।

ज्ञातव्यं यत् मुख्यमन्त्रिणः अनुरोधानन्तरं केन्द्रसरकारेण आरडीएसएस-योजनायाः अन्तर्गतं ऋषिकेशे विद्युत्वितरण-अवसंरचनासुदृढीकरणं तथा भूमिगत-केबल-कार्याणि कृते ४८९ कोटिरूप्यकाणि, तथा ऋषिकेश-हरिद्वार-देहरादून-नगरत्रये स्काडा, डीएमएस, ओएमएस-प्रणालीनां कृते ५९ कोटिरूप्यकाणि स्वीकृतानि।

मुख्यमन्त्री पुष्कर सिंह धामी सम्बद्धाधिकारिणः निर्देशितवान् यत् एतासां स्वीकृतपरियोजनानां शीघ्रं प्रभावी च कार्यान्वयनं सुनिश्चितं क्रियताम्। स उक्तवान् यत् कुंभ मेला आयोजनस्य दृष्ट्या आवश्यक-अवस्थापनासुविधानां विकासे अपि अनेन सहायः भविष्यति।

हिन्दुस्थान समाचार