Enter your Email Address to subscribe to our newsletters

कोलकाता, 04 मईमासः (हि.स.)।
राज्यस्य मुख्यनिर्वाचनाधिकारी मनोज अग्रवालः उक्तवान् यत् राज्ये मतगणनाप्रक्रिया सुचारुरूपेण प्रवर्तते।
सोमवासरे प्रातःकाले मतगणना आरब्धायाः किञ्चित्कालानन्तरं माध्यमैः सह संवादे मुख्यनिर्वाचनाधिकारी उक्तवान् यत् अद्य सम्पूर्णा प्रक्रिया सुचारुरूपेण चलति। राज्यस्य सर्वत्र कुलं ७७ मतगणनाकेंद्रेषु ४५८ कक्षाः निर्मिताः सन्ति, सर्वेषु केंद्रेषु च कठोराः बहुस्तरीयाः सुरक्षाव्यवस्थाः सुनिश्चिताः सन्ति।
तमलुकस्य स्ट्रॉङ्गरूम् विषयकप्रकरणे भारतीयजनतादलं (भाजपा) आरोपान् अकरोत् यत् तेषां प्रतिनिधयः अन्तः प्रवेशं न लभन्ते। मुख्यनिर्वाचनाधिकारी स्पष्टं कृतवान् यत् सर्वाः शिकायताः (अभ्यर्थनाः) समाधानं प्राप्नुवन्ति। सः आश्वासयन् उक्तवान् यत् चिन्तायाः आवश्यकता नास्ति, पर्याप्तः समयः अस्ति, सर्वे अधिकृताः जनाः प्रवेशानुमतिं प्राप्स्यन्ति।
विजययात्राविषये स्थितिं स्पष्टयन् मुख्यनिर्वाचनाधिकारी उक्तवान् यत् अस्मिन् विषये अन्तिमनिर्णयः जिलाधिकारी (डीएम) करिष्यति। कस्यापि प्रकारस्य जुलूसस्य आयोजनाय प्रशासनतः पूर्वानुमतिः अनिवार्या भविष्यति।
---------------
हिन्दुस्थान समाचार