Enter your Email Address to subscribe to our newsletters

कोलकाता, 04 मईमासः (हि.स.)।
पश्चिमबङ्ग-विधानसभानिर्वाचनस्य मतगणनायाः प्रारम्भिकप्रवृत्तिषु बहुषु आसनेषु भारतीयजनतापार्टी (भाजपा) इत्यस्य अभ्यर्थिनः अग्रतां धारयन्ति। विभिन्नविधानसभाक्षेत्रेभ्यः आगच्छन्तीषु प्रारम्भिकसूचनासु बहुषु स्थलेषु तीव्रः प्रतिस्पर्धः अपि दृश्यते। नवीनप्रवृत्त्यानुसारं भाजपा १२१ आसनेषु अग्रे वर्तते, तृणमूलकांग्रेस तु ८७ आसनेषु अग्रतां धारयति।
कोलकातानगरस्य उच्चप्रोफाइल् भवानीपुर-आसने अपि महत्त्वपूर्णः परिवर्तनः दृश्यते। द्वितीयपर्यायस्य मतगणनानन्तरं भाजपा-अभ्यर्थी शुभेन्दु अधिकारी १५५८ मतैः अग्रे वर्तते, यदा तु तृणमूलकांग्रेसस्य प्रमुखा ममता बनर्जी पृष्ठे पतिता दृश्यते।
झाड़ग्रामजिलस्य गोपीबल्लभपुर-विधानसभाक्षेत्रे प्रथमपर्यायस्य मतगणनानन्तरं भाजपा-अभ्यर्थी राजेश महतो ४३७३ मतैः अग्रे वर्तते, तृणमूलकांग्रेसस्य अभ्यर्थी अजीत महतो तु २८६२ मतानि प्राप्तवान्। अनेन प्रकारेण भाजपा-अभ्यर्थी १५११ मतैः अग्रे अस्ति।
मेदिनीपुर-विधानसभासने द्वितीयपर्यायस्य गणनानन्तरं भाजपा-अभ्यर्थी शंकर गुच्छैत २६६४ मतैः अग्रतां धारयति। तथैव गढ़बेता-विधानसभाक्षेत्रे भाजपा-अभ्यर्थी प्रदीप लोधा प्रायः १५०० मतैः अग्रे वर्तते।
पश्चिमबर्धमानजिलस्य औद्योगिकप्रदेशे दुर्गापुर-आसनसोलक्षेत्रस्य सर्वासु नवसु आसनेषु भारतीयजनतापार्टी-अभ्यर्थिनः अग्रतां धारयन्ति। तथैव जंगलमहलप्रदेशे पश्चिममेदिनीपुर, बांकुड़ा तथा झाड़ग्रामजिलेषु अपि भारतीयजनतापार्टी तृणमूलकांग्रेसात् पर्याप्ततया अग्रे दृश्यते।
खड़गपुर-ग्रामीण-विधानसभाक्षेत्रे भाजपा-अभ्यर्थी तपन भुइँया २५५९ मतैः अग्रे वर्तते।
---------------
हिन्दुस्थान समाचार