(संशोधितम्) पश्चिम-बङ्गाल-राज्ये दृढ-सुरक्षायाः मध्ये २९३ आसनानां कृते मतगणना आरब्धा
नोट - नेशनल कटेगरी में पुनः जारी कोलकाता-नगरम्, ०४ मईमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभायाः २९३ आसनानां कृते मतगणना अद्य प्रातः अष्टवादने आरब्धा। प्रथमं डाक-मतपत्राणां गणना क्रियते, अनन्तरं ईवीएम-यन्त्रेषु निहितानां मतानां गणना भविष्यति। राज्ये क
मतगणना केंद्र


नोट - नेशनल कटेगरी में पुनः जारी

कोलकाता-नगरम्, ०४ मईमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभायाः २९३ आसनानां कृते मतगणना अद्य प्रातः अष्टवादने आरब्धा। प्रथमं डाक-मतपत्राणां गणना क्रियते, अनन्तरं ईवीएम-यन्त्रेषु निहितानां मतानां गणना भविष्यति। राज्ये कस्य दलस्य शासनं भविष्यति इति विषये समग्रस्य देशस्य दृष्टिः स्थिता अस्ति। राज्ये समग्रतः ७७ मतगणना-केन्द्रेषु एषा प्रक्रिया प्रवर्तते।

मतगणनां प्रति राज्ये सर्वत्र कडक-सुरक्षा-व्यवस्था कृता। कोलकाता-नगरेण सह विभिन्न-केन्द्रेषु धारा १६३ प्रवर्तिता अस्ति, तथा केन्द्रीय-बलैः सह राज्य-आरक्षक-बलस्य सज्जता कृता। निर्वाचन-आयोगेन त्रिस्तरीया सुरक्षा-व्यवस्था सुनिश्चिती कृता— बाह्य-क्षेत्रस्य रक्षणं राज्य-आरक्षकस्य अधीनम्, केन्द्र-परिसरे रैपिड्-एक्शन-दलं सज्जितम्, तथा आन्तरिक-रक्षणं केन्द्रीय-अर्धसैनिक-बलस्य अधीनम्।

प्रातःकालात् एव विविध-राजनैतिक-दलानाम् अभ्यर्थिनः तेषां प्रतिनिधयश्च मतगणना-केन्द्राणि आगच्छन्ति। भवानीपुर-आसन्दी विशेषतया चर्चायाम् अस्ति, यत्र मुख्यमन्त्री ममता-बनर्जी तथा भाजपा-नेता शुभेन्दु-अधिकारी इत्यनयोः मध्ये प्रत्यक्षः संघर्षः वर्तते।

एतस्मिन् मध्ये तृणमूल-काङ्ग्रेसदलस्य पक्षतः उत्तर-२४-परगना-जनपदे स्वरूपनगर-बनगांव-स्थलेषु मतगणना-केन्द्रेषु अभ्यर्थिनां प्रतिनिधीनां प्रवेशे बाधा इति आरोपः कृतः। अपरत्र दृढ-सुरक्षायाः मध्ये मतगणना-प्रक्रिया निरन्तरं प्रवर्तते। खड्गपुरात् भाजपा-अभ्यर्थी दिलीप-घोषः अपि मतगणनायाः पूर्वं विजयस्य विश्वासं व्यक्तवान्।

उल्लेखनीयम् यत् २९४ सदस्ययुक्तायाः विधानसभायाः कृते २३ तथा २९ अप्रैल-दिनयोः द्वयोः चरणयोः मतदानं सम्पन्नम्। किन्तु दक्षिण-२४-परगना-जनपदस्य फलता-आसन्द्यां निर्वाचन-अनियमितताभिः कारणैः मतदानं निरस्तं कृतम्। तत्र २१ मे-दिने पुनर्मतदानं भविष्यति तथा २४ मे-दिने मतगणना क्रियते। अद्य फलता-आसनं विना अन्येषां सर्वेषां आसनानां मतगणना प्रवर्तते।

२०२१-विधानसभानिर्वाचने तृणमूल-काङ्ग्रेसः २१५ आसनानि जित्वा बहुमतं प्राप्तवान्, यदा भाजपापक्षः ७७ आसनानि प्राप्तवान्। अस्य पर्यायस्य परिणामेन स्पष्टं भविष्यति यत् राज्यस्य सत्ता कस्य हस्ते गमिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता