Enter your Email Address to subscribe to our newsletters

कोलकाता, 04 मईमासः (हि.स.)।
पश्चिमबङ्गविधानसभानिर्वाचनस्य प्रवृत्तिषु भारतीयजनतापार्टी इत्यस्मै स्पष्टबहुमतप्राप्तेः संकेताः दृश्यन्ते। एतेषां संकेतां अनन्तरं राज्यसचिवालयस्य “नबान्न” इत्यस्य बहिः केन्द्रीयबलानां तैनाती कृता अस्ति। सोमवासरे सुरक्षाकारणात् सचिवालयपरिसरः केन्द्रीयसुरक्षाबलैः आवृतः।
सूचनासु उक्तं यत् शिक्षारेशननियुक्तिसम्बद्धेषु कथितभ्रष्टाचारप्रकरणेषु अनेकाः केन्द्रीयसंस्थाः अनुसन्धानं कुर्वन्ति। एतेषां प्रकरणानां सम्बन्धिनः महत्त्वपूर्णदस्तावेजाः सुरक्षितरूपेण स्थापयितुं नबान्नस्य सुरक्षा वर्धिता अस्ति।
अस्मिन्नन्तरे राज्यसरकारीकर्मचारिणां सङ्घस्य “संघर्षामी संयुक्त मंच” इत्यस्य सदस्यः सुबीर साहा गम्भीरान् आरोपान् अकरोत्। तेन उक्तं यत् नबान्नसहितेषु अनेकसचिवालयेषु निदेशालयेषु च महत्त्वपूर्णाः सञ्चिकाः अपसार्यन्ते। केचन डिजिटलसञ्चिकाः अपि लोपयितुं नाशयितुं च प्रयासाः क्रियन्ते। तेन आरोपितं यत् एतत् कार्यं राज्यसरकारस्य केचन कर्मचारीः कुर्वन्ति।
अपरत्र निर्वाचनायोगस्य नवीनप्रवृत्तीनां अनुसारं राज्ये भारतीयजनतापार्टी एकादश आसनानि जितवती, षट्षष्ट्यधिकशत (186) आसनेषु अग्रे वर्तते। तृणमूलकांग्रेस द्वे आसने जित्वा अष्टाशीतिः (88) आसनेषु अग्रे अस्ति। अन्ये पक्षाः अपि यथा कांग्रेस तथा हुमायूं कबीरस्य आमजनताउन्नयनपार्टी द्वे द्वे आसने अग्रे स्तः, यदा तु भारतीयकम्युनिस्टपार्टी मार्क्सवादी तथा ऑलइण्डियासेक्युलरफ्रण्ट एकैकस्मिन् आसने अग्रे स्तः।
---------------
हिन्दुस्थान समाचार