Enter your Email Address to subscribe to our newsletters

देवरिया, 05 मईमासः (हि.स.) । विश्वअस्थमादिवसस्य अवसरे मङ्गलवासरे आरोग्यभारतीसंस्थायाः तत्वावधानेन देवरियाजनपदस्य देवरियाविकासखण्डान्तर्गतस्य रुद्रपुरमार्गस्थिते चिकित्सालये “स्वस्थजीवनशैली” विषयकगोष्ठ्याः आयोजनं कृतम्। अस्य कार्यक्रमस्य उद्देश्यम् आसीत् यत् जनान् अस्थमा इति गम्भीररोगस्य विषये जागरूकान् कर्तुं तथा स्वस्थजीवनशैलीम् अपनयितुं प्रेरयितुं च।
गोष्ठ्याम् आरोग्यभारतीसंस्थायाः प्रान्तीयोपाध्यक्षः डॉअजीतनारायणमिश्रः उपस्थितान् जनान् सम्बोधितवान् यत् स्वस्थतायाः कृते संतुलितदिनचर्या, योगः तथा आयुर्वेदः जीवनस्य अङ्गत्वेन अवश्यं ग्राह्याः। सः अपि अवदत् यत् अस्थमा मुख्यतः श्वासनलिकासु संक्रमणेन अथवा एलर्जीकारणेन भवति। अस्य निवारणार्थं धूलिः, धूमः, परागकणाः तथा अन्ये एलर्जीकारकाः इत्येभ्यः दूरत्वं आवश्यकम्। सः जनान् प्रति आह्वानम् अकरोत् यत् ते अस्य रोगस्य विषये सजगाः भवन्तु तथा समये सावधानतां पालनं कुर्वन्तु।
सः अग्रे अपि अवदत् यत् ऋतूनुसारिणी दिनचर्या तथा संतुलितः आहारः पालनं कृत्वा शरीरस्य रोगप्रतिरोधक्षमता दृढा भवति, येन अनेकाभ्यः रोगेभ्यः संरक्षणं संभवति। योगः तथा प्राणायामः दैनिकजीवने समावेश्य श्वसनतन्त्रं सुदृढं भवति तथा अस्थमादिव्याधिभ्यः राहतिः लभ्यते। अस्मिन् अवसरे जनान् स्वस्थजीवनशैलीम् अपनयितुं संकल्पः अपि दत्तः।--------------
हिन्दुस्थान समाचार