आयुष्मान-योजनायाः विषये बागपत-जनपदः प्रदेशे प्रथम-स्थानं प्राप्तवान्
लखनऊम्, ०५ मईमास: (हि.स.)। भारतवर्षे प्रधानमंत्री-जन-आरोग्य-योजनायाः लाभेन उत्तरप्रदेशस्य सहस्रशः परिवाराः अद्य रोगकाले आर्थिक-सङ्कटात् मुक्ताः जाताः। प्रधानमन्त्री नरेन्द्र-मोदी-महाशयस्य मार्गदर्शनेन तथा मुख्यमन्त्री योगी-आदित्यनाथस्य नेतृत्वे प्र
आयुष्मान कार्ड


लखनऊम्, ०५ मईमास: (हि.स.)। भारतवर्षे प्रधानमंत्री-जन-आरोग्य-योजनायाः लाभेन उत्तरप्रदेशस्य सहस्रशः परिवाराः अद्य रोगकाले आर्थिक-सङ्कटात् मुक्ताः जाताः। प्रधानमन्त्री नरेन्द्र-मोदी-महाशयस्य मार्गदर्शनेन तथा मुख्यमन्त्री योगी-आदित्यनाथस्य नेतृत्वे प्रदेशे स्वास्थ्य-सुरक्षायाः एकः अद्भुतः अध्यायः लिख्यते। अस्मिन् एव क्रमे बागपत-जनपदः उल्लेखनीयां सिद्धिं प्राप्य प्रदेशे प्रथम-स्थानं प्राप्तवान्।

लक्ष्यस्य अपेक्षया ९४ प्रतिशतात् अधिकाः परिवाराः अस्मिन् जनपदे योजनायाः अन्तर्गतं संयुक्ताः सन्ति।

आयुष्मान-पत्रस्य आशायाः सुरक्षायाश्च प्रतीकः जातः। डबल-इञ्जिन-सर्वकारस्य अनेन प्रयासेन निर्धन-तथा-मध्यम-वर्गीय-परिवाराणां कृते उपचारः सुलभः कृतः। अधुना पात्र-परिवाराणां कृते प्रतिवर्षं ५ लक्ष-रूप्यक-पर्यन्तं नगदरहित-चिकित्सा सरकारी-निजी-चिकित्सालययोः उपलब्धा अस्ति।

जनपदाधिकारिणी अस्मिता-लालः अवदत् यत् आयुष्मान-पत्रकं जनानां कृते आशा-सुरक्षयोः प्रतीकः जातः। अस्मात् केवलं उपचारः एव न, अपितु जनानां आत्मविश्वासः अपि वर्धितः अस्ति। अस्याः योजनायाः अन्तर्गतं सार्ध-त्रिलक्षात् अधिकाः जनाः लाभान्विताः जाताः।

बागपत-जनपदः अस्यां योजनायां १२३ कोटि-रूप्यकात् अधिकं क्लेम-राशिं अर्जितवान्, यः प्रमाणयति यत् योजना केवलं कागदेषु न, अपितु भूमौ जनजीवनं परिवर्तयति।

बड़ौत-निवासिनी श्वेता कूल्हे-रोगेण पीडिता आसीत्, यस्याः जीवनं आयुष्मान-पत्रकेण रक्षितम्। तस्याः शस्त्रक्रिया निःशुल्का अभवत्, अद्य सा सामान्यं जीवनं यापयति।

बिलोचपुरा-निवासिनी महरोजा तथा खिन्दौड़ा-निवासी मनोज-कुमारः इत्यादयः बहवः लाभार्थिनः अस्य योजनायाः प्रभावं दर्शयन्ति। पूर्वं यत्र रोगनाम्ना एव जनाः भीताः भवन्ति स्म, अधुना आयुष्मान-पत्रकेण उपचारस्य आशा सुदृढा जाता।

जनपदाधिकारिणी अस्मिता-लालः इदमपि अवदत् यत् वृद्धावस्था-पेंशनधारिणां शत-प्रतिशत-संग्रहणं कृतम् अस्ति, तथा शिक्षक-कर्मचारी-शिक्षामित्राणां माता-पितरौ अपि अस्मिन् योजनायां संयुक्तौ स्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता