वियतनाम-देशस्य राष्ट्रपतेः गयाजिः इत्यत्र मुख्यमन्त्रिणा कृतं स्वागतम्, महाबोधि-मन्दिरे च कृता पूजा-अर्चना
गयाजी, 05 मईमासः (हि.स.)।वियतनाम-देशस्य राष्ट्रपतिः तो लाम महोदयः मङ्गलवासरे ज्ञान-मोक्षयोः भूमिं गयाजीं सम्प्राप्तवान्। बोधगया-अन्तर्राष्ट्रीय-विमानपत्तने बिहारस्य मुख्यमन्त्रिणा सम्राट चौधरी महोदयने तस्य सोत्साहं स्वागतं कृतम्। राष्ट्रपतिः तो लाम
बोध गया एयरपोर्ट पर वियतनाम के राष्ट्रपति तो लाम का स्वागत करते मुख्यमंत्री सम्राच चौधरी


गयाजी, 05 मईमासः (हि.स.)।वियतनाम-देशस्य राष्ट्रपतिः तो लाम महोदयः मङ्गलवासरे ज्ञान-मोक्षयोः भूमिं गयाजीं सम्प्राप्तवान्। बोधगया-अन्तर्राष्ट्रीय-विमानपत्तने बिहारस्य मुख्यमन्त्रिणा सम्राट चौधरी महोदयने तस्य सोत्साहं स्वागतं कृतम्। राष्ट्रपतिः तो लाम महोदयः ५ मईतः ७ मई पर्यन्तं भारतस्य प्रवासे अस्ति।

​गया-विमानपत्तने सुदृढ-सुरक्षा-व्यवस्थायाः मध्ये मुख्यमन्त्रिणा सम्राट चौधरी महोदयने शिष्टाचारानुसारं तस्मै पुष्पगुच्छं दत्त्वा स्वागतं विहितम्। अस्मिन् अन्तराले उभयोः नेतृयोः मध्ये संक्षिप्ता किन्तु सौहार्दपूर्णा चर्चा अपि अभवत्। स्वागत-समारोहे बिहारस्य राज्यपालः सैयद अता हसनैन अपि उपस्थितः आसीत्। विमानपत्तने उपस्थिताः गणमान्य-जनाः राष्ट्रपतेः अभिनन्दनं कृतवन्तः, तस्मै च ‘गार्ड ऑफ ऑनर’ (सम्मान-रक्षिका) प्रदत्ता।

​विमानपत्तनात् राष्ट्रपतिः मार्ग-मार्गेण महाबोधि-मन्दिरं गतवान्, यत्र सः भगवतः बुद्धस्य दर्शनं कृत्वा विधिवत पूजा-अर्चनां च कृतवान्। मन्दिर-परिसरे सुरक्षायाः व्यापकाः प्रबन्धाः कृताः आसन्। राष्ट्रपतिः किञ्चित् कालं ध्यानम् अपि अकरोत्, बौद्ध-परम्पराणां प्रति स्वां प्रगाढां श्रद्धां च प्रकटितवान्। तेन सह वियतनाम-देशस्य उच्चस्तरीय-प्रतिनिधिमण्डलमपि उपस्थितम् आसीत्।

​राष्ट्रपतेः अस्य प्रवासस्य कृते गया-मण्डलीयं प्रशासनं बहुभ्यः दिनेभ्यः सज्जासु संलग्मम् आसीत्। विमानपत्तनात् महाबोधि-मन्दिरं यावत् सुरक्षायाः दृढ-व्यवस्था कृता आसीत्। स्थाने-स्थाने आरक्षक-बलानि, जिल्लाधिकारिणः, सुरक्षा-एजेन्स्यः च नियुक्ताः आसन्। मन्दिरे प्रविशतां श्रद्धालूनां सघनं परीक्षणं कृतम् ।

​अस्मिन् अवसरे मुख्यमन्त्री सम्राट चौधरी उक्तवान् यत् आध्यात्मिक-सांस्कृतिक-ऐतिहासिक-नगर्यां गयायां राष्ट्रपतेः आगमनम् अत्यन्तं महत्त्वपूर्णम् अस्ति, एतच्च भारत-वियतनाम-सम्बन्धं नूतन-शिखरं नेष्यति।

​प्रशासनिक-अधिकारिणाम् अनुसारं, राष्ट्रपतिः बोधगयायाः अन्यान् प्रमुखान् बौद्ध-स्थलान् अपि भ्रमति। तस्य आगमनं दृष्ट्वा नगरे स्वच्छता, यातायात-व्यवस्था, सुरक्षा-प्रबन्धनं च सुव्यवस्थितं कृतम्, सहैव वैदेशिक-प्रतिनिधिमण्डलस्य स्वागताय विशेष-सज्जाः अपि कृताः सन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता