भाजपायै आशानुरूपं लब्धो जयः- दिलीपघोषः
खड़गपुरम्, 05 मईमासः (हि. स.)। पश्चिमबङ्गालविधानसभानिर्वाचने भारतीयजनतापक्षाय अपेक्षितरूपेण विजयः प्राप्तः। जनैः भारतीयजनतापक्षाय बह्वाशिर्वादः दत्तः। एतां वाणीं भारतीयजनतापक्षस्य नेता दिलीपघोषः मङ्गलवासरे प्रातःकाले खड्गपुरस्थानकस्य समीपे “चायप
दिलीप घोष


खड़गपुरम्, 05 मईमासः (हि. स.)।

पश्चिमबङ्गालविधानसभानिर्वाचने भारतीयजनतापक्षाय अपेक्षितरूपेण विजयः प्राप्तः। जनैः भारतीयजनतापक्षाय बह्वाशिर्वादः दत्तः। एतां वाणीं भारतीयजनतापक्षस्य नेता दिलीपघोषः मङ्गलवासरे प्रातःकाले खड्गपुरस्थानकस्य समीपे “चायपेचर्चा” इत्यस्मिन् कार्यक्रमे उक्तवान्।

सः विश्वासं दत्तवान् यत् नूतनसरकारस्य लक्ष्यं अधुना बङ्गालस्य विकासं कर्तुम् अस्ति। तेन शिक्षायाः रोजगारस्य च विषयेषु विशेषं ध्यानं दास्यते इति दावः कृतः।

अस्यां मध्ये तेन आरजीकर इत्यस्य विषयः अपि उत्थापितः। अस्मिन् विषये सः अवदत् यत् सा घटना बङ्गालं कम्पितवती आसीत्। यथा अभयायाः मातुः अपमानः कृतः, तत् सम्यक् नास्ति। अधुना न्यायः अवश्यम् लप्स्यते।

सः अवदत् यत् वयम् अपि स्वस्य निर्वाचनक्षेत्रस्य विजयेन अतीव हृष्टाः स्मः। यदा पक्षेन तस्मै कार्यं दत्तं, तदा सः उत्तमं कार्यं करिष्यति।

---------------

हिन्दुस्थान समाचार