Enter your Email Address to subscribe to our newsletters


मध्यप्रदेश-शासनस्य संस्कृति-विभागान्तर्गतं महाराजा-विक्रमादित्य-शोधपीठेन आयोजितः विक्रमोत्सवः अस्मिन् वर्षे स्वर्ण तथा रजत इति द्वौ प्रतिष्ठितौ पुरस्कारौ प्राप्तवान्।
नवदेहल्यां १-२ मई २०२६ तिथिषु आयोजिते “शोज ऑफ इंडिया कॉन्क्लेव २०२६” इति कार्यक्रमे विक्रमोत्सव-२०२६ इत्यस्य कृते सांस्कृतिक-लाइव-इवेंट-ऑफ-द-ईयर श्रेण्यां गोल्ड-अवार्डः, तथा लाइव-इवेंट-श्रेण्यां सर्वोत्तम-शासकीय-सहभागिता इति वर्गे सिल्वर-पुरस्कार: प्राप्तः।
एते पुरस्कार आज: “वाओ लाइव अवार्ड्स” अन्तर्गतं प्रदत्ताः, ये देशे कॉन्सर्ट, फेस्टिवल, टूर तथा लाइव-इवेंट-क्षेत्रेषु उत्कृष्ट-कार्यं कुर्वतां सर्जकानां दूरदर्शिनां च सम्मानाय दीयन्ते। अस्मिन् वर्षे ३०० तः अधिकाः प्रविष्टयः प्राप्ताः, याः अस्य क्षेत्रस्य विस्तारं विविधतां च दर्शयन्ति। विशेषज्ञ-निर्णायकमण्डलद्वारा तासां मूल्याङ्कनं कृत्वा एतानि सम्मानानि घोषितानि।
मुख्यमन्त्रिणः संस्कृति-परामर्शकः तथा महाराजा-विक्रमादित्य-शोधपीठस्य निदेशकः तिवारीमहोदयः अवदत् यत् विक्रमोत्सव-२०२६ द्वारा प्राप्तौ एते द्वौ पुरस्कारौ मध्यप्रदेशस्य कृते अत्यन्तं गौरवस्य विषयौ स्तः। एतत् सम्मानं न केवलं राज्यस्य सांस्कृतिक-समृद्धेः प्रतीकः, अपितु तस्य पारम्परिक-आधुनिक-सांस्कृतिक-अभिव्यक्तिनां वैश्विक-मञ्चे स्थापनायाः महत्त्वपूर्णा उपलब्धिः अस्ति।
तेन उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदी-महाशयस्य “विरासत् से विकासः” इति मंत्रं अनुसृत्य मुख्यमन्त्री डॉ.मोहन-यादवस्य मार्गदर्शने मध्यप्रदेशः निरन्तरं सांस्कृतिक-विकासे कार्यं करोति। विक्रमोत्सवः परम्पराणां, मूल्यानां, नवाचारस्य च जीवन्तः उत्सवः जातः अस्ति।
पूर्ववर्षेषु अपि विक्रमोत्सवः बहूनि सम्मानानि प्राप्तवान्—वर्ष २०२५ मध्ये ईमैक्स-ग्लोबल-सम्मानेन “लांगेस्ट-स्टैंडिंग-आईपी-ऑफ-द-ईयर” सम्मानं, तथा “वाओ एशिया गोल्ड अवार्ड” प्राप्तम् आसीत्। वर्ष २०२४ मध्ये एशिया-खण्डस्य “बिगेस्ट रिलिजियस अवार्ड” इत्यपि प्राप्तः।
विक्रमोत्सव-२०२६ कालखण्डे आयोजनस्य डिजिटल-प्रसारणेन अपि नूतनं कीर्तिमानं स्थापितम्। ७ फरवरीतः २४ मार्च २०२६ पर्यन्तं कुलं १७.७२ कोटि-जनाः अस्य आयोजनस्य प्रभावं प्राप्तवन्तः। अस्मिन् ४७.८५ लक्ष-जनाः आधिकारिक-सोशल-मीडिया तथा लाइव-स्ट्रीमिंग् द्वारा, तथा १७.२४ कोटिश: जनाः यूजर-जनित-सामग्रीद्वारा सम्बद्धाः अभवन्।
एषः १३९-दिवसीयः विक्रमोत्सवः महाशिवरात्रेः आरभ्य वर्ष-प्रतिपदा, तथा जल-गङ्गा-संवर्धन-अभियानपर्यन्तं विस्तीर्णः सांस्कृतिक-सामाजिक-आर्थिक-उत्सवः जातः। अस्मिन् ४१ प्रकाराः गतिविधयः आयोजिताः, यस्मिन् ४००० तः अधिकाः कलाकाराः सहभागं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता