Enter your Email Address to subscribe to our newsletters

बगहा-नगरम्, ०५ मईमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघ: स्वस्य शत-वार्षिकी-सम्पूर्णतायाः उपलक्ष्ये “शताब्दी-वर्षम्” आचरति, यत् गतस्य ०२ अक्तूबर २०२५ तः अक्तूबर २०२६ पर्यन्तं प्रवर्तते। संघेन अस्मिन् अवधौ देशव्यापि विविधाभिः सामाजिक-सांस्कृतिक-साङ्घटनिक-क्रियाभिः युवा-सम्मेलनानि, सामाजिक-सौहार्द-प्रवर्धनम्, शाखानां विस्तारः च साधयितुं लक्ष्यं निर्धारितम्, यस्य अन्तर्गतं सहस्रशः नूतन-शाखानां स्थापना अपि अभिलषिता।
अस्य कार्यक्रमस्य सफलतां सुनिश्चेतुं बगहा-एककस्य संघेन बगहा-नगरे शान्ति-विवाह-भवने अद्य सामाजिक-सौहार्द-सभायाः सफलम् आयोजनं कृतम्। अस्मिन् समागमे नगरस्य विविध-समाज-समुदायेषु सम्बद्धाः शतशः जनाः सहभागित्वं कृतवन्तः। कार्यक्रमे मुख्य-अतिथिरूपेण उत्तर-बिहार-प्रदेशस्य प्रान्त-प्रचारकः रविशंकरः उपस्थितः आसीत्।
सभायां रविशंकरः स्वयंसेवकान् तथा गणमान्य-जनान् सम्बोध्य सामाजिक-सौहार्दस्य महत्त्वं प्रतिपादितवान् तथा सर्वेषां वर्गाणां जनान् एकसूत्रेण संयोजयितुं आह्वानं कृतवान्। तेन उक्तं यत् संघे सर्वै: जाति-वर्गीयै: जनै: सह मिलित्वा भ्रातृत्व-भावेन निवसन्ति। सः ‘पञ्च-परिवर्तन’-अन्तर्गतं समाजे विद्यमानानां कुरीतीनां निवारणाय अपि परामर्शं दत्तवान्।
अस्मिन् समागमे सतीश-कुमारः, समरेन्द्र-किशोरः, दिनेश-अग्रवालः, प्रवीण-कुमारः, उमेश-अग्रवालः, जितेन्द्र-कुमारः, राजेन्द्र-पाठकः, डॉ.अरविन्द-नाथ-तिवारी, रवि, सुरेशः, चन्द्रप्रकाश-देवः, राकेशः, विक्रान्त-रायः, मनोज-साहुः, राजीव-कुमारः इत्यादयः स्वयंसेवकाः तथा समाजस्य गणमान्य-जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता