एशियाई खेल 2026 इत्यस्याःस्पर्धायाः सज्जा तीव्रा 1.67 कोटिमितेन व्ययेन शुभारब्धे त्रिराष्ट्रिय बैडमिंटन शिविरे युताः शीर्षक्रीडकाः
नवदिल्ली, 05 मईमासः (हि.स.)। युवकार्यक्रमक्रीडामन्त्रालयेन अनुमोदितेन १.६७ कोटिरूप्यकव्ययेन सञ्चालिताः त्रयः राष्ट्रियप्रशिक्षणशिविराः भारतीयबैडमिण्टनदलगणानां एशियाई खेल 2026 प्रतियोगितायाः सिद्धतासु नूतनां दिशां ददति। दशमे अप्रैलमासात् आरब्धाः ए
थॉमस कप में  कांस्य पदक विजेता भारतीय टीम


नवदिल्ली, 05 मईमासः (हि.स.)।

युवकार्यक्रमक्रीडामन्त्रालयेन अनुमोदितेन १.६७ कोटिरूप्यकव्ययेन सञ्चालिताः त्रयः राष्ट्रियप्रशिक्षणशिविराः भारतीयबैडमिण्टनदलगणानां एशियाई खेल 2026 प्रतियोगितायाः सिद्धतासु नूतनां दिशां ददति। दशमे अप्रैलमासात् आरब्धाः एते शिविराः हैदराबादनगरे, बेंगलुरुनगरे, गुवाहाटीनगरे च आयोजिताः सन्ति, यत्र देशस्य श्रेष्ठाः शटलराः एकत्र समानीय उच्चस्तरीयप्रशिक्षणं दीयते।

अद्यतनकाले डेनमार्कदेशस्य हॉर्सेन्सनगरे २४ अप्रैलतः ३ मईपर्यन्तं आयोजिते थॉमस और उबेर कप 2026 स्पर्धायां भारतीयपुरुषदलम् कांस्यपदकं प्राप्तवान्। एतेषां शिविराणां माध्यमेन लक्ष्य सेन, पदार्पणकर्ता आयुष शेट्टी, किदांबी श्रीकांत तथा युगलजोडी सात्विकसाईराज रंकीरेड्डी–चिराग शेट्टी इत्यादयः क्रीडकाः सहाभ्यासं, संयोजनसुधारं तथा स्पर्धालयस्य विकासं कर्तुम् अवसरं प्राप्तवन्तः।

एते शिविराः पुलेला गोपीचंद बैडमिंटन अकादमी, सेंटर फॉर बैडमिंटन एक्सीलेंस तथा नेशनल सेंटर फॉर एक्सीलेंस बैडमिंटन अकादमी इत्येषु केन्द्रेषु आयोजिताः सन्ति।

हैदराबादशिविरे १३ पुरुषाः ९ महिलाः च क्रीडकाः, बेंगलुरुशिविरे ५ पुरुषाः ५ महिलाः च, गुवाहाटीशिविरे ४ पुरुषाः १ महिला च प्रशिक्षणं प्राप्नुवन्ति। एते शिविराः त्रिंशत् जूनपर्यन्तं प्रवर्तिष्यन्ते।

मुख्यराष्ट्रियप्रशिक्षकस्य पुलेला गोपीचंद मार्गदर्शने सञ्चालितेषु एतेषु शिविरेषु विदेशीयप्रशिक्षकाः, फिजियोविशेषज्ञाः, प्रशिक्षकाः, विश्लेषकाः च अपि सम्मिलिताः सन्ति, येन क्रीडकानां कृते अन्तरराष्ट्रीयस्तरीयस्पर्धात्मकपर्यावरणं सुलभं भवेत्।

एतेषु शिविरेषु पीवी सिंधुना सह त्रीसा जॉली, तनिषा क्रास्टो इत्यादयः अन्ये अपि क्रीडकाः सहभागं कुर्वन्ति।

अधुना एतेषां शिविराणां मुख्यकेन्द्रणं एशियाई खेल 2026, ओलंपिक खेल 2028 तथा बैडमिंटन विश्व महासंघ एवं बैडमिंटन एशिया इत्याभ्यां आयोजितानां अन्ताराष्ट्रियस्पर्धानां सिद्धतासु केन्द्रितम् अस्ति।

---------------

हिन्दुस्थान समाचार