उत्तराखण्डं वैश्विक-ज्ञान-विज्ञान-केन्द्रं कर्तुं प्रयत्न: तीव्रीकृतः
देहरादून-नगरम्, ०५ मईमासः (हि.स.)। धामी-सरकारेण उत्तराखण्डं भारतीय-ज्ञान-विज्ञान-संस्कृतेः वैश्विक-केन्द्रं कर्तुं दिशि प्रयत्नाः तीव्रीकृताः। अस्यैव क्रमस्य अन्तर्गतं पुष्करसिंहधामी मंगलवासरे उच्चस्तरीय-सभायां ऋषिकुले स्थितस्य मदन-मोहन-मालवीय-प्रा
मुख्यमंत्री पुष्कर सिंह धामी बैठक लेते हुए।


देहरादून-नगरम्, ०५ मईमासः (हि.स.)। धामी-सरकारेण उत्तराखण्डं भारतीय-ज्ञान-विज्ञान-संस्कृतेः वैश्विक-केन्द्रं कर्तुं दिशि प्रयत्नाः तीव्रीकृताः। अस्यैव क्रमस्य अन्तर्गतं पुष्करसिंहधामी मंगलवासरे उच्चस्तरीय-सभायां ऋषिकुले स्थितस्य मदन-मोहन-मालवीय-प्राच्य-शोध-संस्थानस्य समग्र-विकास-विस्तार-योजनानां समीक्षां कृतवान्। मुख्यमन्त्री उक्तवान् यत् अस्य संस्थानस्य नूतन: परिचय: राज्य-सर्वकारस्य प्राथमिकता अस्ति तथा च एतत् आधुनिक-शोधस्य समन्वितं वैश्विक-केन्द्ररूपेण विकसितं करिष्यते।

सभायां संस्थानं भारतीय-ज्ञान-परम्परा, प्राचीन-विज्ञानम्, संस्कृति: तथा आधुनिक-शोधस्य वैश्विक-केन्द्ररूपेण विकसितुं विस्तरेण विचार-विमर्शः कृतः। मुख्यमन्त्री उक्तवान् यत् उत्तराखण्डः केवलं आस्था-अध्यात्मयोः भूमिः न, अपि तु ऋषीणां, ज्ञानस्य वैज्ञानिक-चिन्तनस्य च अपि भूमिः आसीत्।

मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् मदन-मोहन-मालवीय-प्राच्य-शोध-संस्थानस्य कार्यं शीघ्रं प्रारभ्यताम् तथा च कुम्भ-आरम्भात् पूर्वं पूर्णतां नीयताम्। पर्यटन-विभागः अस्मिन् नोडल-विभागरूपेण कार्यं करिष्यति।

तेन प्रमुख-सचिवं आर.के.-सुधांशुं निर्देशितवान् यत् अस्य संस्थानस्य कार्याणां नियमित-प्रगत्यर्थं सम्बन्धित-विभागीय-सचिवैः सह पाक्षिक-सभाः आयोजनीयाः। विकासेन सह परम्परा-संरक्षणे अपि विशेष-ध्यानं दातव्यम्। राज्यस्य सर्वेषां जनपदानां लोक-कलाः अपि अस्मिन् अन्तर्भावनीयाः।

मुख्यमन्त्री उक्तवान् यत् संस्थाने वैदिक-गणितम्, वेदेषु निहितं विज्ञानम्, उपनिषदां दर्शनम्, भारतीय-तर्कशास्त्रम्, पर्यावरण-विज्ञानं तथा जीवन-मूल्यानि आधृत्य आधुनिक-शोध-व्यवस्था विकसितव्या। सः अवदत् यत् भारतेन विश्वाय शून्यं, दशमलव-प्रणाली, बीजगणितं तथा त्रिकोणमिति इत्यादीनि महत्त्वपूर्णानि गणितीय-सिद्धान्तानि दत्तानि। आर्यभट्ट:, ब्रह्मगुप्त:, वराहमिहिर: इत्यादीनां महाविदुषां योगदानं शोध-शिक्षाभ्यां सह संयोजनीयम्।

सभायां खगोल-विज्ञानम्, धातु-विज्ञानम्, कृषि-विज्ञानम्, पर्यावरण-संरक्षणम् इत्यादिषु विषयेषु विशेष-अध्ययन-केन्द्र-स्थापनाय अपि चर्चा अभवत्। मुख्यमन्त्री उक्तवान् यत् प्राचीन-भारते धातु-विज्ञानम्, जल-प्रबन्धनम्, जैविक-कृषिः तथा मौसम-आधारित-कृषि-ज्ञानं अतीव विकसितम् आसीत्, यत् आधुनिक-अनुसन्धानैः सह संयोज्य नूतन-वंशाय प्रापणीयम्।

सः अवदत् यत् अद्यतन-काले वेद-उपनिषदादिषु वर्णिताः नैतिक-शिक्षाः, अनुशासनम्, कर्तव्य-बोधः तथा मानवीय-मूल्यानि समाजे प्रसारयितुं आवश्यकम्। एतत् संस्थानं शिक्षया सह संस्कार-राष्ट्र-निर्माणयोः अपि केन्द्रं भविष्यति। तत्र डिजिटल-पाण्डुलिपि-संरक्षण-केन्द्रम्, आधुनिक-ग्रन्थालयः, शोध-प्रयोगशालाः, संगोष्ठी-केन्द्रम्, ई-लर्निंग-सुविधाः च व्यवस्थापनीयाः।

अन्ते सभायां भारतीय-विद्या-शाखानां गहन-अध्ययन-प्रोत्साहनेन सह पर्यटनम्, आयुर्वेदः, ज्योतिषम्, योग-शिक्षा च विकास-विषये विचार-विमर्शः अभवत्। ज्ञातं यत् ज्ञान-योग-ध्यान-अध्यात्म-परम्पराः अस्मिन् संस्थाने वैश्विक-केन्द्ररूपेण स्थापयिष्यन्ते, यत्र श्रुति-केन्द्रे वेद-उपनिषद-परम्परा, दर्शन-केन्द्रे भारतीय-दर्शनम्, आयु-केन्द्रे आयुर्वेद-स्वास्थ्य-विज्ञानम्, विज्ञान-केन्द्रे पारम्परिक-विज्ञान-प्रणाल्यः, कला-केन्द्रे भारतीय-कला-संस्कृतेः सजीव-अभिव्यक्तिः विकसिताः भविष्यन्ति।

सभायां प्रमुख-सचिवः आर.के.-सुधांशु:, डॉ.आर.-मीनाक्षी-सुन्दरम्, सचिवः धीराज-गर्ब्यालः, दीपक-कुमारः, डॉ.आर.-राजेश-कुमारः, श्रीमती रञ्जना-राजगुरू, हरिद्वार-रूड़की-विकास-प्राधिकरणस्य उपाध्यक्षः सोनिका, अपर-सचिवः बंशीधर-तिवारी तथा आभासी-माध्यमेन हरिद्वार-जनपदस्य जनपदाधिकारी मयूर-दीक्षितः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता