शिक्षायां राजनीतिर्न चलिष्यति, शीघ्रं छात्रसंघनिर्वाचनं कारणीयम् -एबीवीपी
सिलीगुड़ी, 06 मईमासः (हि. स.)। शैक्षिक-संस्थासु “राजनैतिक-रङ्गस्य” विरोधं छात्रसंघ-निर्वाचनस्य याचनां च कृत्वा अखिल-भारतीय-विद्यार्थी-परिषद्-संगठनेन सिलीगुडी-नगरस्य बाबूपाड़ा-क्षेत्रस्थिते विद्यार्थी-कल्याण-भवने पत्रकारैः सह संवादः कृतः। अस्मिन् अव
पत्रकारों से बात करते हुए एबीवीपी के सदस्य


सिलीगुड़ी, 06 मईमासः (हि. स.)। शैक्षिक-संस्थासु “राजनैतिक-रङ्गस्य” विरोधं छात्रसंघ-निर्वाचनस्य याचनां च कृत्वा अखिल-भारतीय-विद्यार्थी-परिषद्-संगठनेन सिलीगुडी-नगरस्य बाबूपाड़ा-क्षेत्रस्थिते विद्यार्थी-कल्याण-भवने पत्रकारैः सह संवादः कृतः।

अस्मिन् अवसरे संगठनस्य राष्ट्रिय-कार्यकारिणी-सदस्या पूजा-राम-महोदया तथा प्रदेश-सचिवः डी-ओ-दत्त-महोदयः उपस्थितौ आस्ताम्। सभायां शैक्षिक-संस्थानानां वर्तमान-स्थितेः भविष्य-रणनीतेः च विषये चर्चा कृता।

अखिल-भारतीय-विद्यार्थि-परिषद्-संगठनेन स्पष्टतया उक्तं यत् महाविद्यालयेषु विश्वविद्यालयेषु च कस्यापि प्रकारस्य राजनैतिक-हस्तक्षेपः न सह्यः भविष्यति। तेषां मतम् अस्ति यत् छात्र-हितमेव सर्वोपरि अस्ति, तदेव आधारं कृत्वा शिक्षण-संस्थानानि राजनीतेः दूरं स्थापनीयानि।

संगठनेन एतदपि घोषितं यत् शीघ्रमेव राज्यस्य विभिन्न-शैक्षिक-संस्थासु सदस्यता-अभियानं प्रारभ्यते, येन महाविद्यालयेषु विश्वविद्यालयेषु च स्वस्य उपस्थितिः अधिकं सुदृढा कर्तुं शक्येत। सहैव अखिल-भारतीय-विद्यार्थी-परिषदा तत्कालं छात्रसंघ-निर्वाचनस्य आयोजनस्य मागः कृता। संगठनस्य अनुसारं लोकतान्त्रिक-पद्धत्या निर्वाचनं कृत्वा छात्रेभ्यः स्व-प्रतिनिधेः चयनस्य अधिकारः प्रदातव्यः।

संगठनेन एषा संचेना अपि प्रदत्ता यत् शैक्षिक-संस्थासु कस्यापि प्रकारस्य दादागिरी अथवा अत्याचारः न सह्यः भविष्यति, छात्रच्छात्राणां सुरक्षा पारदर्शी-परिवेशस्य सुनिश्चितीकरणार्थं च ते निरन्तरं स्वरम् उत्थापयिष्यन्ति।

हिन्दुस्थान समाचार