राज्य स्तरीय पुरस्काराय 8 मई दिनांकं यावत् करणीयम् आवेदनम्
3 दिसंबर को विश्व दिव्यांग दिवस पर दिया जाएगा पुरस्कार
3 दिसंबर को विश्व दिव्यांग दिवस पर दिया जाएगा पुरस्कार


मुरादाबादम्, 06 मईमासः (हि.स.)।

मुरादाबादजनपदस्य जिलादिव्याङ्गजनसशक्तीकरणाधिकारी विजयकुमारयादवः अवदत् यत् प्रतिवर्षं ३ दिसम्बर दिनाङ्के विश्वदिव्याङ्गदिवसस्य अवसरे दिव्याङ्गजनसशक्तीकरणविभागस्य पक्षतः राज्यस्तरीयपुरस्काराः प्रदीयन्ते। अस्यार्थं ८ मई दिनाङ्कपर्यन्तम् आवेदनं कर्तुं शक्यते।

राज्यपुरस्काराणां कृते द्वादश विभिन्नश्रेणीषु पात्रतां धारयन्तः अभ्यर्थिनः संस्थाश्च विकासभवने स्थितात् जिलादिव्याङ्गजनसशक्तीकरणाधिकारीकार्यालयात् आवेदनपत्रं प्राप्य स्वस्य सम्पूर्णविवरणं अभिलेखैः सह त्रिषु प्रतिषु ८ मई दिनाङ्कपर्यन्तं समर्पयितुं शक्नुवन्ति।

हिन्दुस्थान समाचार