असम विधानसभानिर्वाचनं 2026 सफलतापूर्वकं संपन्नं, राज्यपालाय समर्पिता चितसदस्यानां सूची
गुवाहाटी, 06 मईमासः (हि.स.)। असमस्य मुख्यनिर्वाचनाधिकारी (सीईओ) अनुरागगोयलः भारतनिर्वाचनआयोगस्य प्रतिनिधिभिः सह मिलित्वा असमविधानसभानिर्वाचनम् २०२६ सामान्यनिर्वाचनस्य सफलसमापनानन्तरं नूतनायाः असमविधानसभायाः गठनार्थम् अद्य असमराज्यपालाय लक्ष्मणप्रसा
असमः राज्यपाल लक्ष्मण प्रसाद आचार्य को चुने हुए विधानसभा सदस्यों की सूची सौंपते असम के मुख्य चुनाव अधिकारी अनुराग गोयल एवं भारत निर्वाचन आयोग के प्रतिनिधि


गुवाहाटी, 06 मईमासः (हि.स.)। असमस्य मुख्यनिर्वाचनाधिकारी (सीईओ) अनुरागगोयलः भारतनिर्वाचनआयोगस्य प्रतिनिधिभिः सह मिलित्वा असमविधानसभानिर्वाचनम् २०२६ सामान्यनिर्वाचनस्य सफलसमापनानन्तरं नूतनायाः असमविधानसभायाः गठनार्थम् अद्य असमराज्यपालाय लक्ष्मणप्रसादआचार्याय असमविधानसभायाः नवनिर्वाचितसदस्यानां सूचीं समर्पितवान्।

भारतीयजनतापक्षस्य (भाजपा) नेतृत्वयुक्तेन राष्ट्रियजनतान्त्रिकगठबन्धनेन (राजग) समग्रतया १०२ स्थानानि प्राप्तानि, येषु भारतीयजनतापक्षेण ८२ स्थानानि, असमगणपरिषदा (अगप) १० स्थानानि, बोडोलैण्डपीपुल्सफ्रण्ट् (बीपीएफ) १० स्थानानि च प्राप्तानि। अपरतः काङ्ग्रेसनेतृत्वयुक्तेन गठबन्धनेन २१ स्थानानि प्राप्तानि, येषु काङ्ग्रेसदलेन १९ स्थानानि तथा राइजरदलेन २ स्थानानि जितानि। ऑलइण्डियायूनाइटेडडेमोक्रेटिकफ्रण्ट् (एआयूडीएफ) द्वे स्थानि प्राप्तवान्, यदा तृणमूलकाङ्ग्रेस् (टीएमसी) एकं स्थानं प्राप्तवती।

असमस्य मुख्यनिर्वाचनाधिकारी सम्पूर्णराज्ये निर्वाचनप्रक्रियायाः सफलशान्तिपूर्णपारदर्शिसञ्चालने अमूल्ययोगदानाय सर्वेभ्यः हितधारकेभ्यः हार्दिकं कृतज्ञतां प्रकटितवान्। सः असमस्य मतदातृभ्यः तेषां सक्रियसहभागितायै उत्तरदायित्वबोधेन उत्साहेन च लोकतान्त्रिकमूल्यानां पालनार्थं हार्दिकं धन्यवादं दत्तवान्।

निर्वाचनप्रक्रियायां तेषां निरन्तरसमर्पणाय व्यावसायिकतायै च जिलानिर्वाचनाधिकारीणां, रिटर्निङ्गाधिकारीणां, सहायरिटर्निङ्गाधिकारीणां, निर्वाचकपञ्जीकरणाधिकारीणां, मतदानकेन्द्रस्तरीयाधिकारीणां, मतदानकर्मचारिणां, मतगणनाधिकारीणां तथा निर्वाचनप्रबन्धने सम्बद्धानां सर्वेषां अधिकारिणां कर्मचारिणां च विशेषप्रशंसा कृता।

मुख्यनिर्वाचनाधिकाऱिणा सम्पूर्णराज्ये निर्वाचनस्य शान्तिपूर्णसुचारुसफलसञ्चालननिश्चयार्थं सहकार्यसमन्वितप्रयत्नयोः कृते सुरक्षाबलानां, असमपुलिसस्य, सीएपीएफबलस्य, होमगार्ड्सदलस्य, विधिपालनसंस्थानां, शासकीयविभागानां, माध्यमानां, राजनैतिकदलानां, नागरिकसमाजसमूहानां, एसवीईईपीदलानां तथा सर्वेषां हितधारकाणां प्रति अपि धन्यवादः ज्ञापितः।

असमस्य मुख्यनिर्वाचनाधिकाऱिणा उक्तं यत् निर्वाचनस्य सफलसमापनं पुनरेकवारं लोकतन्त्रस्य संवैधानिकमूल्यानां च सुदृढीकरणार्थम् असमस्य जनानां संस्थानां च सामूहिकप्रतिबद्धतां प्रदर्शयति।----------------

हिन्दुस्थान समाचार