Enter your Email Address to subscribe to our newsletters

ग्वालियर-नगरम्, ०६ मईमास: (हि.स.)। पञ्चाङ्ग-गणनानुसारं ११ मई-दिने मध्याह्ने १२:३९ वादने मङ्गलः स्वीय-मेष-राशौ प्रवेशं करिष्यति, तथा २० जून-पर्यन्तं तत्रैव स्थितः भविष्यति। ज्योतिष-शास्त्रे एषा स्थिति विशेषत्वेन गण्यते, यतः मङ्गलस्य स्वगृहे स्थितिः ऊर्जा-निर्णय-क्षमता-नेतृत्व-शक्तीनां सुदृढीकरणं करोति; किन्तु अस्मिन् वारे अयं गोचरः केवलं व्यक्तिगत-स्तरे न सीमितः सन् देश-विश्वयोः परिस्थितिषु अपि प्रभावं कर्तुं शक्नोति।
ज्योतिषाचार्याः मन्यन्ते यत् अयं कालः विकास-संघर्षयोः मिश्रित-स्वरूपं वहिष्यति। यत्र एकतः भूमि-भवन-निर्माण-संबद्ध-क्षेत्रेषु तीव्रता दृश्यते, तत्रैव अग्निदाह-तथा तकनीकी-दुर्घटनानां सम्भावना अपि व्यक्ती क्रियते।
अस्मिन् विषये आचार्य-भरत-दुबे इत्यस्य कथनम् अस्ति— “मङ्गलः पद-प्रतिष्ठा-पराक्रम-सेना-भूमि-यानानां कारक-ग्रहः इति मन्यते। यदा सः स्वीय-राशौ आगच्छति, तदा एतेषु क्षेत्रेषु सकारात्मक-परिणामान् ददाति; किन्तु अयं गोचरः किञ्चित् प्राकृतिक-असंतुलनम् अपि जनयितुं शक्नोति, यथा अग्निदाहः वा विमान-संबद्ध-घटनाः। सहैव निर्माण-कार्येषु तथा अवसंरचना-विकासे तीव्रता दृश्यते।”
स: वदति यत् ग्रह-स्थित्यानुसारं परिणामाः व्यक्ति-स्थानयोः भिन्नाः भवन्ति, अतः सतर्कता अपेक्षिता। अपरतः पण्डित-बृजेशचन्द्र-दुबे इत्यस्य अभिप्रायः अस्ति— “अस्य वारे मङ्गल-गोचरः अधिकं विशेषः अस्ति, यतः सूर्यः बुधः च पूर्वमेव मेष-राशौ स्थितौ स्तः। मङ्गलस्य प्रवेशेन त्रिग्रही-युतिः भविष्यति, या महत्-स्तरे परिवर्तनस्य संकेतं ददाति। एषा युतिः केषुचित् क्षेत्रेषु शान्ति-वार्तानां सफलतां जनयेत्, अन्यत्र पुनः चिन्ता वर्धयेत्।”
अन्य: पण्डित: राजेश-चौबे एतत् ग्रह-परिवर्तनं ऊर्जा-विस्फोट-रूपेण पश्यति। तेन उक्तम्— “मेषे मङ्गलस्य प्रवेशः ऊर्जा-विस्फोटः अस्ति। अयं कालः जनान् समस्या: स्वीकृत्य अग्रे गन्तुं प्रेरयिष्यति; किन्तु शीघ्रतया कृताः निर्णयाः हानिं अपि जनयितुं शक्नुवन्ति। विशेषतः यूनां तथा प्रशासन-वर्गस्य संतुलन-पालनं आवश्यकम्।”
मङ्गलः शासन-प्रशासनयोः कारक-ग्रहः इति मन्यते। अतः अस्य गोचरस्य समये प्रशासनिक-परिवर्तनानि तथा राजनैतिक-पद-परिवर्तनस्य सम्भावना सुदृढा भवति। राज्येषु शासकीय-यन्त्राणां परिवर्तनं तथा नूतन-निर्णयानां आरम्भः अपि सम्भाव्यते, ये भविष्ये महत्त्वपूर्ण-परिणामान् दास्यन्ति।
एतेषां सर्वेषां ज्योतिषाचार्याणां एकमतम् अस्ति यत् द्वादश-राशिषु अस्य प्रभावः एतादृशः भविष्यति—मेष-राशौ आत्मविश्वासस्य सफलतायाश्च वृद्धि: भविष्यति। वृषभ-राशेः कृते सम्पत्ति-निवेशे तीव्रता दृश्यते। मिथुन-राशेः जनानां नूतन-योजनासु सहभागितायाः संकेताः सन्ति। कर्क-राशेः कृते सावधानता आवश्यकाऽस्ति। सिंह-राशेः जनानां कृते नूतन-अवसराः उपलब्धाः भविष्यन्ति। कन्या-राशेः जनाः गुप्त-शत्रुभ्यः सतर्काः स्युः। तुला-राशेः कृते सहभागितायां लाभः दृश्यते। वृश्चिक-राशेः जनाः विचारपूर्वकं निर्णयान् कुर्वन्तु। धनु-राशेः कृते कृषि-भूमि-संबद्ध-लाभाः सूच्यन्ते। मकर-राशेः जनानां जीवने सम्मान-तथा पद-प्राप्तेः योगाः सन्ति। कुम्भ-राशौ आकस्मिक-लाभाः सम्भवन्ति, तथा मीन-राशेः जनानां कृते मानसिक-शान्तिः ऋण-मुक्तिश्च सूच्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता