Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 06 मईमासः (हि.स.)।
राज्यसर्वकारः बदरीनाथधाम्नः “स्प्रिचुअल हिल टाउन” इति रूपेण विकासार्थं कार्ययोजनां निर्माति। अत्र मास्टरप्लानस्य अन्तर्गतं सौन्दर्यीकरणं, सांस्कृतिकपरिचयः, आध्यात्मिकमहत्त्वं च दृष्ट्वा विविधस्थानानां विकासकार्यं क्रियते।
अस्य विषये मुख्यमन्त्रिणः पुष्करसिंहधामिनः समक्षं बुधवासरे सचिवालये पर्यटनविभागस्य अधिकारिभिः बदरीनाथधाम्नः मास्टरप्लानस्य अन्तर्गतं प्रचलमानकार्याणां विवरणं प्रस्तुतम्। उपवेशने पर्यटनसचिवः धीराजगर्ब्यालः प्रस्तुतिकरणस्य माध्यमेन अवदत् यत् बदरीनाथधाम्नः आध्यात्मिकस्मार्ट्-हिल्-टाउनरूपेण विकासार्थं बहुआयामीयचरणबद्धकार्याणि क्रियमाणानि सन्ति। एतेषां कार्याणाम् उद्देश्यं तीर्थयात्रिकेभ्यः आधुनिकसुविधाभिः सह दिव्यं सुव्यवस्थितं च अनुभवं प्रदातुम् अस्ति।
तेन उक्तं यत् मास्टरप्लानस्य अन्तर्गतं क्षेत्रस्य सौन्दर्यीकरणं, सांस्कृतिकपरिचयः, आध्यात्मिकमहत्त्वं च दृष्ट्वा विविधस्थानानि विशेषरूपेण विकसितानि भवन्ति। देवदर्शनी-बिन्दुः एवं प्रकारेण विकसितः क्रियते यत् श्रद्धालवः अत्रतः बदरीनाथधाम्नः प्रथमदर्शनं भव्यदिव्यरूपेण प्राप्नुयुः। बदरीनारायणचतुष्पथः अपि प्रमुखाध्यात्मिकसांस्कृतिककेन्द्ररूपेण विकसितः क्रियते, यत्र श्रद्धालुभ्यः उत्तमसुविधाः आकर्षकसार्वजनिकस्थलानि च उपलब्धानि भविष्यन्ति।
बदरीनाथधाम्नि आईएसबीटी-भित्तौ स्थानीयकला तथा धार्मिकविषयाधारितैः भित्तिचित्रैः क्षेत्रस्य सांस्कृतिकविरासत् प्रदर्शिता भविष्यति। वसुधावाटिकाकलाकृतेः माध्यमेन प्रकृतेः, आध्यात्मिकतायाः तथा उत्तराखण्डस्य पारम्परिककलायाः समन्वयं कृत्वा आकर्षकलैण्डस्केप निर्मास्यन्ते।
मास्टरप्लाने भगवद्विष्णोः सम्बद्धचिह्नानाम् अपि विशेषमहत्त्वं प्रदत्तम् अस्ति। तेषु पाञ्चजन्यशङ्खः, कौमोदकीगदा, सुदर्शनचक्रम्, वैकुण्ठद्वारम् इत्यादीनां भव्यकलाकृतीनां निर्माणं भविष्यति। एताः कलाकृतयः न केवलं धार्मिकमहत्त्वं प्रदर्शयिष्यन्ति, अपितु श्रद्धालूनां आकर्षणकेन्द्राणि अपि भविष्यन्ति। तदतिरिक्तं शेषनेत्रकलाकृतिः तथा पञ्चतत्त्वाधारितसंरचनाः आध्यात्मिकऊर्जां भारतीयदर्शनं च प्रकाशयिष्यन्ति।
भगवान्रामकृष्णयोः आधारितानां रामायणमहाभारतकालीनप्रतीकानाम् अपि अस्मिन् समावेशः कृतः। दीपआरतीस्थलस्य विकासयोजना अपि निर्मिता, येन अत्र आयोज्यमाना आरती श्रद्धालूनां कृते दिव्यस्मरणीयानुभवं जनयेत्। सम्पूर्णक्षेत्रे स्ट्रीटस्केप-विकासकार्यस्य योजना अपि प्रस्ताविता अस्ति, यस्य अन्तर्गतं आधुनिकपर्यावरणानुकूलरीत्या पदमार्गाः, प्रकाशव्यवस्था, उपवेशनसुविधाः, संकेतपट्टिकाः तथा सौन्दर्यीकरणसम्बद्धकार्याणि क्रियन्ते।
मुख्यमन्त्रिणा अधिकारिणः निर्देशिताः यत् बदरीनाथधाम्नः दिव्यस्वरूपं अधिकं भव्यं आकर्षकं च कर्तुं अस्यां परियोजनायां सर्वे आवश्यकप्रावधानाः सुनिश्चिताः क्रियन्ताम्। तेन उक्तं यत् स्थानीयसंस्कृतेः पर्यावरणसंरक्षणस्य च विशेषध्यानं धारयितव्यम्। तस्य मतम् आसीत् यत् एतेषां सर्वेषां कार्याणां माध्यमेन बदरीनाथे न केवलम् आध्यात्मिकवातावरणं सुदृढं भविष्यति, अपितु पर्यटनक्षेत्राय अपि नूतना दिशा प्रदास्यते।
परियोजनायाः पूर्णतायां बदरीनाथः तादृशः आदर्शस्थलरूपेण प्रतिष्ठां प्राप्स्यति, यत्र आस्था, आधुनिकता तथा प्रकृतेः सन्तुलितः संगमः दृश्यते। अस्मिन् अवसरे सचिवः शैलेशबगोली, अपरसचिवः बंशीधरतिवारी, संयुक्तसचिवः अनिलजोशी इत्यादयः अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार