Enter your Email Address to subscribe to our newsletters

रायपुरम् ,06 मईमासः (हि.स.)।
विष्णुदेव सायोऽद्य बुधवासरे मन्त्रालये महत्त्वपूर्णां समीक्षा-सभां करिष्यति। एषा सभा मध्याह्ने १२ वादने आरभ्य भविष्यति।
सभायां प्रदेशस्य प्रशासनिकव्यवस्था, विकासकार्याणां प्रगतिः तथा विभिन्नविभागीययोजनानां समीक्षा क्रियिष्यते।
सूत्राणां अनुसारेण सभायां अधिकारिभ्यः लंबितकार्याणि शीघ्रं सम्पन्नानि कर्तुं तथा जनहितयोजनानां प्रभावीक्रियान्वयनस्य विषये आवश्यकनिर्देशाः प्रदातुं शक्यन्ते।
सभायाः अनन्तरं मुख्यमंत्री सीएमहाउसगमनार्थं प्रस्थितः भविष्यति।
हिन्दुस्थान समाचार