राजनांदग्रामे अद्य निर्जीविकयुवभ्यः आयोक्ष्यते रोजगारमेला, 794 पदेषु भविष्यति साक्षात् नियुक्तिः
रायपुरम् 06 मईमासः (हि.स.)। जिला रोजगार एवं स्वरोजगार मार्गदर्शन केन्द्र (मॉडल कैरियर सेन्टर), राजनांदगांव द्वारा जनपदस्य शिक्षितबेरोजगारयुवकेभ्यः निजीक्षेत्रे रोजगारसुविधां प्रदातुं उद्दिश्य अद्य बुधवासरे एकः विशालः जीविकामेलापकः आयोजितः भवति।
रोजगार मेला सांकेतिक फाेटाे


रायपुरम् 06 मईमासः (हि.स.)।

जिला रोजगार एवं स्वरोजगार मार्गदर्शन केन्द्र (मॉडल कैरियर सेन्टर), राजनांदगांव द्वारा जनपदस्य शिक्षितबेरोजगारयुवकेभ्यः निजीक्षेत्रे रोजगारसुविधां प्रदातुं उद्दिश्य अद्य बुधवासरे एकः विशालः जीविकामेलापकः आयोजितः भवति। अस्मिन् मेले अष्टभिः प्रतिष्ठितनियोजकैः कुलं ७९४ रिक्तपदेषु नियुक्तिः क्रियिष्यते।

जिलारोजगारकार्यालयस्य राजनांदगांवस्य माध्यमेन अद्य प्रातः १०:३० वादनात् आरभ्य अपराह्णे ३ वादनपर्यन्तं सेफ इंटेलीजेंट सिक्योरिटी इत्यनेन संस्थानेन १५० गार्डपदेषु, टैंगो सिक्योरिटी इत्यनेन संस्थानेन ८० गार्डपदेषु, अन्याभिः संस्थाभिः सुपरवाइजर तथा फील्डऑफिसरपदेषु, एसआर हॉस्पिटल दुर्ग इत्यनेन संस्थानेन नर्सिंगस्टाफपदेषु ३० नियुक्तयः, स्टार आदर्श होम हेल्थ केयर इत्यनेन संस्थानेन केयरटेकरपदेषु १०० नियुक्तयः, स्मार्टमीटरटेक्निशियनपदेषु ४० नियुक्तयः, वीडियोसम्पादकपदेषु, होटलप्रबन्धनपदेषु (केवलं महिलाभ्यः ५० पदानि), अग्निशामकपदेषु, वाहनचालकपदेषु तथा लेखाकारपदेषु नियुक्तिः क्रियिष्यते।

इच्छुकाभ्यर्थिभ्यः ईरोजगारपटले ऑनलाइनपञ्जीकरणं अनिवार्यम् अस्ति। मेलादिने अभ्यर्थिभिः स्वीयानि शैक्षणिकयोग्यतायाः मूलप्रमाणपत्राणि तेषां छायाप्रतिलिपयः, आधारकार्डम्, द्वे नवीनपासपोर्टआकारचित्रे च सह आनयनीयानि।

जिलाप्रशासनेनाह्वानं कृतम् यत् योग्याः इच्छुकाश्च अभ्यर्थिनः निर्धारितसमये उपस्थिताः भूत्वा अस्य अवसरस्य लाभं गृह्णन्तु। अधिकसूचनार्थम् अभ्यर्थिनः जिला रोजगार एवं स्वरोजगार मार्गदर्शन केन्द्र (मॉडल कैरियर सेन्टर), राजनांदग्रामेण सह सम्पर्कं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार